Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s4: अष्टमो पटलः: जैन-प्रतिमा-लक्षणं बौद्ध-प्रतिमा-लक्षणञ्च
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s4
- Language
- English
Contents (217)
- v2.p820–v2.p830 — 100 passages
- v2.p831–v2.p842 — 100 passages
- v2.p842–v2.p843 — 17 passages
अष्टमो पटलः: जैन-प्रतिमा-लक्षणं बौद्ध-प्रतिमा-लक्षणञ्च
v2.c83.s4.1
जैन-प्रतिमा-लक्षणं बौद्ध-प्रतिमा-लक्षणञ्च
v2.c83.s4.2
अ. जैन-प्रतिमा-लक्षणम्
v2.c83.s4.3
अरूपं रूपमापन्नं विश्वरूपं जगत्प्रभुम् ।
केवलं ज्ञानमूर्तिञ्च वीतरागं जिनेश्वरम् ॥
द्विभुजञ्चैकवक्त्रञ्च बद्धपद्मासनस्थितम् ।
लीयमानपरब्रह्मजिनमूर्त्तिजगद्गुरूम् ॥
v2.c83.s4.4
दिव्यतरुः सुरपुष्पसुवृष्टिर्दुन्दुभिवासनयोजनघोषी ।
आतपवारण-चामर-युग्मे यस्य विभाति च मण्डलतेजः ॥
अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनिश्चामरमासनञ्च ।
भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् ॥
v2.c83.s4.5
सुगतजैनकादीनां लक्षणं मानपूर्वकम् ।
स्थावरं जङ्गमं चैव लक्षणं वक्ष्यतेऽधुना ।
द्विभुजं च द्विनेत्रं च मुण्डतारं च शीर्षकम् ॥
ऋजुस्थानकसंयुक्तं तथा चासनमेव च ।
समाङ्घ्रि ऋज्वाकारं स्याल्लम्बहस्तद्वयं तथा ॥
आसनं च द्विपादौ च पद्मासनं तु संयुतम् ।
ऋजुकं च ऋजुभावं योगं तत्परमात्कभू ॥
सव्यापसव्यहस्तं च मूलोर्ध्वोमुखं करौ ।
स्थानकं चासनं वापि सिंहासनोपरि न्यसेत् ॥
उपरे तु निर्यूहं कुर्यान्मकरतोरणं भवेत् ।
तदूर्ध्वं कल्पवृक्षः स्यात्सगजेन्द्रपरैः सह ॥
नारदादीन् ऋषीन्देवान्देवाङ्गनाभिः सह सेवितान्।
यक्षविद्याधराद्यैश्च चक्रमन्यत्र भूपतीन् ॥
नागेन्द्रादीन् च दिक्पालान्यक्षैश्च सह सेवितान् ।
यक्षयक्षेश्वरौ पार्श्वे चामरोद्धृतसेवितान् ॥
चतुर्त्रयान्तरीक्षे तु तस्याधो जिनदेवतान् ।
स्फटिकश्वेतरक्तं च पीतश्यामनिभं तथा ॥
सिद्धादिश्च सुगन्धश्च जिनं चाहं तु पार्श्वकम् ।
एतत्पञ्चपरमेष्टी (वर्णं) पञ्चबेरं यथाक्रमम् ॥
v2.c83.s4.6
उत्तमं दशतालेन देवाङ्गैः संह मानयेत् ।
चतुर्विंशतितीर्थान् दशतालेन कारयेत् ॥
निराभरणसर्वाङ्गं निर्वस्त्राङ्गं मनोहरम् ।
सर्ववक्षःस्थले हेमवर्णं श्रीवत्सलाञ्छनम् ॥
द्वारे चण्डं महाचण्डं कुर्यात्सव्यापसव्यके ।
एवं तु जिनमित्युक्तं शेषमागमत उक्तवत् ॥
v2.c83.s4.7
आजानुलम्बबाहुः श्रीत्साङ्कः प्रशान्तमूर्तिश्च ।
दिग्वासास्तरुणो रूपवांश्च कार्योंऽहंतां देवः ॥
v2.c83.s4.8
अथ बिम्बं जिनेन्द्रस्य कर्तव्यं लक्षणान्वितम् ।
ऋज्वायतसुसंस्थानं तरुणाङ्कदिगम्बरम् ॥
श्रीवत्सभूषितोरस्कं जानुप्राप्तकराग्रजम् ।
जिनाङ्गुलप्रमाणेण साष्टाङ्गुलशतायतम् ॥
कक्षादिरोमहीनाङ्गं इमश्रुशेषविवर्जितम् ।
ऊर्ध्वप्रलम्बकं दत्वा समाप्यन्तं च धारयेत् ॥
v2.c83.s4.9
तीर्थङ्करान् प्रवक्ष्यामि चतुर्विंशतिसंख्यकान् ।
नामवर्णलाञ्छनार्थं देवीयक्षादिकक्रमम् ॥
ऋषभश्चाजितश्चैव संभवश्चाभिनन्दनः ।
सुमतिः पद्मप्रभश्च सुपार्श्वः सप्रभो मतः ।
चन्द्रप्रभश्च सुविधिः शीतलो दशमो मतः ।
श्रेयांसचसो वासुपूज्यश्च विमलोऽनन्तसंज्ञकः ॥
धर्मः शान्तिः कुन्थुररो मलिनाथस्तथैव च ।
मुनिस्तथा सुव्रतश्च नमिश्चारिष्टनेमिकः ॥
पार्श्वनाथो वर्धमानश्चतुर्विंशतिरर्हताम् ।
v2.c83.s4.10
चन्द्रप्रभः पुष्पदन्तः श्वेतौ वै क्रौञ्चसम्भवौ ? ।
पद्मप्रभो धर्मनाथो रक्तोत्पलनिभौ मतौ ।
सुपार्श्वः पार्श्वनाथश्च हरिद्वणौ प्रकीर्तितौ ।
नेमिश्च श्यामवर्णः स्यान्नीलो मल्लिः प्रकीतितः ॥
शेषाः षोडश सम्प्रोक्तास्तप्तकाञ्चनसमप्रभाः ।
वर्णानि कथितान्यग्रे लाञ्छनानि ततः श्रृणु ॥
v2.c83.s4.11
वृषो गजाश्वकपयः क्रौञ्चपद्मकस्वतिकाः ।
चन्द्रो मकरश्रीवत्सौ गण्डको महिषस्तथा ॥
शूकरः शशादनश्च वज्रश्च मृग आजकः ।
नन्द्यावर्तश्च कलशः कूर्मो नीलाब्जशङ्खकौ ॥
सर्पः सिंहश्चर्षभादेर्लाञ्छनानीरितानि च ।
v2.c83.s4.12
चतुर्विंशतिरुच्यन्ते क्रमाच्छासनदेविकाः ॥
चक्रेश्वरी रोहिणी च प्रज्ञा वै वज्रश्रृङ्खला ।
v2.c83.s4.13
नरदत्ता मनोवेगा कालिका ज्वालमालिका ॥
महाकाली मानवी च गौरी गान्धारिका तथा ।
विराटा तारिका चैवानन्तागतिश्च मानसी ॥
महामानसी च जया विजया चापराजिता ।
बहुरूपा च चामुण्डाऽम्बिका पद्मावती तथा ॥
सिद्धायिकेति देव्यस्तु चतुर्विंशतिरर्हताम् ।
v2.c83.s4.14
षट्पादा द्वादशभुजा चक्राण्यष्टौ द्विवज्रकम् ।
मातुलिङ्गाभये चैव तथा पद्मासनाऽपि च ॥
गरुडोपरिसंस्था च चक्रेशी हेमवर्णिका ।
v2.c83.s4.15
चतुर्भुजा श्वेतवर्णा शङ्खचक्राभयवरा ।
लोहासना च कर्तव्या रथारूढा च रोहिणी ।
v2.c83.s4.16
प्रज्ञावती श्वेतवर्णा षड्भुजा चैव संश्रुता ॥
अभयवरदफल—चन्द्राः परशुरुत्पलम् ॥
v2.c83.s4.17
नागपाशाक्षफलकं वरदं हंसवाहिनी ।
चतुर्भुजा तथैवोक्ता विख्याता वज्रशृङ्खला ॥
v2.c83.s4.18
चतुर्भुजा चक्रवज्र-फलानि वरदं तथा ।
श्वेतहस्तिसमारूढा कर्तव्या नरदत्तिका ॥
v2.c83.s4.19
चतुर्वर्णा स्वर्णवर्णाऽशनिचक्रफलं वरम् ।
अश्ववाहनसंस्था च मनोवेगा तु कामदा ॥
v2.c83.s4.20
कृष्णाऽष्टबाहुस्त्रिशूल-पाशाङ्कुशधनुःशरा ।
चक्राभयवरदाश्च महिषस्था च कालिका ॥
v2.c83.s4.21
कृष्णा चतुर्भुजा घण्टा त्रिशूलं च फलं वरम् ।
पद्मासना वृषारूढा कामदा ज्वालमालिनी ॥
v2.c83.s4.22
चतुर्भुजा कृष्णवर्णा वज्रगदावराभयाः ।
कूर्मस्था च महाकाली सर्वशान्तिप्रदायिनी ॥
v2.c83.s4.23
चतुर्भुजा श्यामवर्णा पाशाङ्कुशफलं वरम् ।
सूकरोपरिसंस्था च मानवी चार्थदायिनी ॥
v2.c83.s4.24
पाशाङ्कुशाब्जवरदाः कनकाभा चतुर्भुजा ।
सा कृष्णहरिणारूढा कार्या गौरी च शान्तिदा ॥
v2.c83.s4.25
करद्वये पद्मफले नक्रारूढा तथैव च ।
श्यामवर्णा प्रकर्तव्या गान्धारी नामिका भवेत् ॥
v2.c83.s4.26
श्यामवर्णा षड्भुजा द्वौ वरदौ खड्गखेटकौ ।
धनुर्बाणौ विराटाख्या व्योमयानगता तथा ॥
v2.c83.s4.27
चतुर्भुजा स्वर्णवर्णा धनुर्बाणौ फलं वरम् ।
हंसासनाऽनन्तमतिः कर्तव्या शान्तिदायिनी ॥
v2.c83.s4.28
षड्भुजा रक्तवर्णा च त्रिशूलं पाशचक्रके ।
डमहर्वे फलवरे मानसी व्याघ्रवाहना ॥
v2.c83.s4.29
चतुर्भुजा सुवर्णाभा शरः शाङ्गं च वज्रकम् ।
चक्रं महामानसी स्यात् पक्षिराजोपरिस्थिता ॥
v2.c83.s4.30
वज्रचक्रे पाशाङ्कौ फलं च वरदो जया ।
कनकाभा षड्भुजा च कृष्णशूकरसंस्थिता ॥
v2.c83.s4.31
सिंहासना चतुर्बाहुर्वज्रचक्रफलोरगाः ।
तेजोवती स्वर्णवर्णा नाम्ना सा विजया मता ॥
v2.c83.s4.32
खड्गखेटौ फलवरौ श्यामवर्णा चतुर्भुजा ।
शान्तिदाऽष्टापदस्था च विख्याता ह्यपराजिता ॥
v2.c83.s4.33
द्विभुजा स्वर्णवर्णा च खड्गखेटकधारिणी ।
सर्पासना च कर्तव्या बहुरूपा सुखावहा ॥
v2.c83.s4.34
रक्ताभाष्टभुजा शूल—खड्गौ मुद्गरपाशकौ ।
वज्रचक्रे डमर्वक्षौ चामुण्डा मर्कटासना ॥
v2.c83.s4.35
हरिद्वर्णा सिंहसंस्था द्विभुजा च फलं वरम् ।
पुत्रेणापास्यमाना च सुतोत्सङ्गा तथाऽम्बिका ॥
v2.c83.s4.36
पाशाङ्कुशौ पद्मवरे रक्तवर्णा चतुर्भुजा ।
पद्मासना कुक्कुटस्था ख्याता पद्मावतीति च ॥
v2.c83.s4.37
द्विभुजा कनकाभा च पुस्तकं चाभयं तथा
सिद्धायिका तु कर्तव्या भद्रासनसमन्विता ।
v2.c83.s4.38
वृषवक्त्रो महायक्षस्त्रिमुखश्चतुराननः ।
तुम्बुरुः कुसुमाख्यश्च मातङ्गो विजयस्तथा ॥
जयो ब्रह्मा किन्नरेशः कुमारश्च तथैव च ।
षण्मुखः पातालयक्षः किन्नरो गरुडस्तथा ॥
गन्धर्वश्चैव यक्षेशः कुबेरो वरुणस्तथा ।
॰भृकुटिश्चैव गोमेधः पार्श्वो मातङ्ग एवं च ॥
यक्षाश्चतुर्विंशतिकाः ऋषभादेर्यथाक्रमम् ।
भेदांश्च भुजशस्त्राणां कथयामि समासतः ॥
v2.c83.s4.39
वराक्षसूत्रे पाशश्च मातुलिङ्गं चतुर्भुजः ।
श्वेतवर्णो वृषमुखो वृषभासनसंस्थितः ॥
v2.c83.s4.40
श्यामोऽष्टबाहुर्हस्तिस्थो वरदाभयमुद्गराः ।
अक्षपाशाङ्कुशाः शक्तिर्मातुलिङ्गं तथैव च ॥
v2.c83.s4.41
मयूरस्थस्त्रिनेत्रश्च त्रिवक्त्रः श्यामवर्णकः ।
परश्वक्षगदाचक्रशङ्खा वरश्च षड्भुजः ॥
v2.c83.s4.42
नागपाशवज्राङ्कुशा हंसस्थश्चतुराननः ।
द्वौ सर्पौ फलवरदौ तुम्बुरुर्गरुडासनः ॥
v2.c83.s4.43
कुसुमाख्यो गदाक्षौ च द्विभुजो मृगसंस्थितः ।
मातङ्गः स्याद् गदापाशौ द्विभुजो मेषवाहनः ॥
v2.c83.s4.44
विजयजयौ पशुं¹ पाशाभयवराः कपोते विजयः स्थितः ।
शक्त्यक्षफलवरदा जयः कूर्मासनस्थितः ॥
ब्रह्मयक्षेशौ पाशाङ्कुशाभयवरा ब्रह्मा स्याद्धंसवाहनः ।
त्रिशूलाक्षफलवरा यक्षेट्श्वेतो वृषस्थितः ॥
कुमारषण्मुखौ धनुर्बाणफलवराः कुमारः शिखिवाहनः ।
षण्मुखः षड्भुजो वज्रो धनुर्बाणौ फलं वरः ॥
किन्नरपातालौ किन्नरेशः पाशाङ्कुशौ धनुर्बाणौ फलं वरः ।
पातालश्च वज्राङ्कुशौ धनुर्बाणौ फलं वरः ॥
गरुडगन्धर्वौ पाशाङ्कुशफलवरा गरुडःस्याच्छुकासनः ।
पद्माभयफलवरा गन्धर्वः स्याच्छुकासनः ॥
यक्षेशकुबेरौ यक्षेट् खरस्थो वज्रारि धनुर्बाणाः फलं वरः ।
पाशाङ्कुशफलवरा धनेद् सिंहे चतुर्मुखः ॥
वरुणभृकुटी पाशाङ्कुश-धनुर्वाण-सर्पवज्रा ह्यपां पतिः ।
शूलशक्ति वज्रखेटा ? डमरुभृंकुटिस्तथा ॥
पार्श्वः पार्श्वो धनुर्बाण भृण्डि मुद्गरश्च फलं वरः ।
सर्परूपः श्यामवर्णः कर्तव्यः शान्तिमिच्छता ॥
मातङ्गः फलं वरोऽथ द्विभुजो मातङ्गो हस्तिसंस्थितः ।
गोमेधः ? . . . . . ॥
यक्षाश्चतुर्विंशतिकास्त्वथर्षभादितः क्रमात् ।
लाञ्छनानि चामरेन्द्रच्छत्रत्रयमशोकः पुष्पवर्षणम् ॥
ज्ञानं ध्वजास्तथा यक्षदेवीनां लाञ्छनानि च ।
v2.c83.s4.45
टि०—जैनानामपि सम्प्रदाये दशदिग्पालानां (इन्द्र-अग्नि-यम-निर्ऋति-वरुण-वायु-कुबेर-ईशान-पातालाधीश्वरनागदेव-ऊर्ध्वलोकाधीश्वरब्रह्म-देवेत्यादीनाम्) नव-ग्रहाणां, सरस्वत्याः योगिनीनाञ्चापि लक्षणानि प्रायेण ब्राह्मणप्रतिमा-लक्षणैस्सह समानान्येवातः विस्तरेणालम् । परं विद्यादेवीनां (श्रुतदेवीनां वा) क्षेत्रपालस्य च लक्षणं दीयते । तथाहि—
v2.c83.s4.46
षोडशविद्यादेव्यः
शि० रत्ना० नामानि प्रथमा रोहिणी ज्ञेया प्रज्ञप्तिर्वज्रशृङ्खला ।
वज्राङ्कुशी समाख्याता चक्रेश्वरी तथैव हि ॥
नरदत्ता च काली च महाकाली च गौरिका ।
गान्धारी च महाज्वाला विज्ञातव्या च मानवी ॥
वैरोट्याच्छुप्तिका चैव मानसी महामानसी ।
इमाष्षोडशसंख्याका विद्यादेव्यः शुभप्रदाः ॥
१. रोहिणी लक्षणानि सुरभिवाहना रूढा गौरवर्णा तु रोहिणी ।
अक्षबाणधनुःखड्गसमन्वितचतुष्करा ॥
२. प्रज्ञप्तिः प्रज्ञप्तिः श्वेतवर्णा च मयूरवरवाहना ।
वरदशक्तिसंयुक्ता सशक्तिमातुलिङ्गिका ॥
३ वज्रशृङ्खला चतुर्भुजा च शङ्खाभा पद्मस्था वज्रशृङ्खला ।
वरदशृङ्खलायुक्ता शृङ्खलापद्मसंयुता ॥
v2.c83.s4.47
४. वज्राङ्कुशी वज्राङ्कुशी गजारूढा कनकाभा चतुर्भुजा ।
वरदं वज्रकं धत्तऽङ्कुशञ्च मातुलिङ्गकम् ॥
५. चक्रेश्वरी गरुडस्था तडिद्वर्णाऽप्रतिचक्रा चतुर्भुजा ।
चक्रेश्वरीति या ख्याता चक्रयुक्तचतुष्करा ॥
६. नरदत्ता नरदत्ता च हेमाभा महिषीवाहनस्थिता ।
वरदखड्गसंयुक्ता खेटकमातुलिङ्गिका ।
७. काली काली तु कृष्णवर्णा स्यात्पद्मासना चतुर्भुजा ।
अक्षसूत्रगदावज्राऽभययुक्तचतुष्करा ॥
८. महाकाली महाकाली तमालाभा पुरुषवाहनस्थिता ।
अक्षसूत्रं तथा वज्रं धत्तेऽभयञ्च घंटिकाम् ॥
९. गौरी गौरी कनकवर्णाभा गोधावाहनसंस्थिता ।
वरदमूसलाक्षाब्जसमन्वितचतुष्करा ॥
१०. गान्धारी गान्धारी नीलवर्णा च कमलासनसंस्थिता ।
वरदं मूसलं वज्रमभयञ्चैव बिभ्रती ॥
११, महाज्वाला मार्जारवाहना नित्यं ज्वालोद्भासिकरद्वया ।
शशाङ्कधवला ज्वाला देवी भद्रं ददातु नः ॥
१२. मानवी मानवी श्यामवर्णा च कमलस्था चतुर्भुजा ।
वरदपाशशाखाक्षसूत्राऽलङ्कृतहस्तका ॥
१३. वैरोटचा वैरोटचा श्यामवर्णा चाजगरासनसंस्थिता ।
सव्ये खड्गोरगौ धत्ते वामे खेटकपन्नगौ ॥
१४. अच्छुप्ता अच्छुप्ता च तडिद्वर्णा तुरङ्गवाहनस्थिता ।
खड्गबाणधनुः खेटविभूषितचतुर्भुजा ॥
१५. मानसी मानसी धवलाभा च हंसवाहनसंस्थिता ।
वरदवज्रवज्राक्षवलयान्वितबाहुका ॥
१६. महामानसी सिंहासनसमासीना धवला महामानसी ।
वरासिखेटकैर्युक्ता कुण्डचा चैव चतुर्भुजा ॥
v2.c83.s4.48
क्षेत्रपालः— ॐ नमः क्षेत्रपालाय कृष्णगौरकाञ्चनधूसरकपिलवर्णाय विंशतिभुजदण्डाय बर्बरकेशाय जटाजूतमण्डिताय वासुकीकृतजिनोपवीताय तक्षककृतमेखलाय शेषकृतहाराय नानायुधहस्ताय सिंहचर्मावरणाय प्रेतासनाय कुक्कुरवाहनाय त्रिलोचनाय च ।
(i) आ० दि०
v2.c83.s4.49
(ii) नि०क० क्षेत्रपालं क्षेत्रानुरूपनामानं श्यामवर्णं बर्बरकेशमावृत्तपिङ्गनयनं विकृतदंष्ट्रं पादुकाधिरूढं नग्नं कामचारिणं षड्भुजं मुद्गरपाशडमरुकान्वितदक्षिणपाणिं श्वानाङ्कुशगेंडिकायुतवामपाणिं श्रीमद्भगवतो दक्षिणपार्श्वे ईशानाश्रितं दक्षिणाशामुखमेव प्रतिष्ठाप्यम् ।
v2.c83.s4.50
मणिभद्रक्षेत्रपालः ढक्का शूलसुदामपाशाङ्कुशखड्गैः ।
त्वत्करषट्कं युक्तं भात्यायुधवगैः ॥
v2.c83.s4.51
टि०—जैनानां शान्तिदेव्यः कल्पना विलक्षणैव—
v2.c83.s4.52
शान्तीदेवी श्री चतुर्विधसंघस्य शासनोन्नतिकारिणी ।
v2.c83.s4.53
(i) प्र० क० शिवशान्तिकरी भूयात् श्रीमती शान्तिदेवता ॥
(ii) शान्तिदेवतां धवलवर्णी कमलासनां चतुर्भुजां वरदाक्षसूत्रयुक्तदक्षिणकरां कुण्डिकाकमण्डलन्वितवामकराम् ।
v2.c83.s4.54
जिनायतनम्
v2.c83.s4.55
जिनालयं प्रवक्ष्यामि [जिनेन्द्रभवनं तथा ।
आश्रयन्ति ततो दिव्या जिनशासनपारगाः ॥
जिनेन्द्रस्य तथा यक्षा देव्यश्च जिनमातृकाः ।
तीर्थङ्कराणां सर्वेषामतीतानामवर्तिनाम् ॥
केवल्यृषभदेवाद्याः पद्मनाभादितः क्रमात् ।
पृथक् चतुर्विंशतिर्वे जिनानां वा द्वासप्ततिः ॥
जन्मनिष्क्रमणस्थानज्ञाननिर्वाणभूमिषु ।
अन्येषु पुण्यदेशेषु नदीकूले नगरेषु च ॥
ग्रामादिसन्निवेशेषु समुद्रपुलिनेषु च ।
अन्येषु वा मनोज्ञेषु कारयेज्जिनमन्दिरम् ॥
v2.c83.s4.56
जिनायतने जिनमूर्तीनां स्थापनक्रमः
v2.c83.s4.57
नेमिश्च मल्लिनाथश्च वीरो वैराग्यकारकाः ।
त्रयो वै मन्दिरे स्थाप्या शुभदाः न गृहे मताः ॥
ऋषभादिजिनपंक्तिः स्थाप्या दक्षिणतः सदा ।
चतुर्विंशजिनालये सर्वस्मिन्सृष्टिमार्गतः ॥
चतुर्विंशतिपृथक्त्वे जिनानां च द्वासप्ततिः ।
मूलनायको भवेद्यस्तु तस्य स्थाने सरस्वती ॥
जिनालये जिनं कुर्यादन्ते कुर्यात्सरस्वतीम् ।
सरस्वती जिनश्चैव ह्यान्योन्यवरोधकम् ॥
v2.c83.s4.58
जिनेन्द्रस्याष्टौ प्रतीहराः
v2.c83.s4.59
इन्द्र इन्द्रजयश्चैव महेन्द्रो विजयेन्द्रकः ।
धरणेन्द्रः पद्मकश्च सुनाभः सुरदुन्दुभिः ॥
इत्यष्टौ च प्रतीहाराः वीतरागादिशान्तिदाः ।
पृथगेकैकशश्चैव कथयिष्याम्यनुक्रमम् ॥
फलं वज्राङ्कुशौ दण्ड इन्द्रोऽसव्ये इन्द्रजयः ।
द्वौ वज्रौ फलदण्डौ च महेन्द्रोऽसव्ये विजयः? ॥
तदायुधयोगोद्भववास्त्रिपञ्चाश्वफणा मताः ।
धरणेन्द्रः पद्मकश्च सर्वे शान्तिकराः स्मृताः ॥
यक्षरूपाधिकाराश्च निधिहस्ताः शुभोदराः ।
सर्वशान्तिप्रदावेवं सुनाभः सुरदुन्दुभिः ॥
इत्यष्टौ च जिनेन्द्रस्य प्रतीहाराश्च शान्तिदाः ।
नगरादौ पुरे ग्रामे सर्वविघ्नप्राणाशनाः ॥
v2.c83.s4.60
ब. बौद्ध-प्रतिमा-लक्षणम्
v2.c83.s4.61
बुद्धाः बुद्धशक्तयः बोधिसत्वाश्च
v2.c83.s4.62
पञ्चध्यानिबुद्धानामाविर्भावः—चक्षुर्वैरोचनो बुद्धो श्रवणो वज्रसूर्य्यकः ।
घ्राणश्च परमाद्यैस्तु पद्मनर्त्तेश्वरो मुखम् ॥
कायः श्रीहेरुकॊ राजा वज्रसत्वञ्च मानसम् ।
पञ्चध्यानिबुद्धाः जिनो वैरोचणो ख्यातो रत्नसंभव एव च ।
अमिताभामोघसिद्धिरक्षोभ्यश्च प्रकीर्त्तिताः ॥
वर्णाः अमीषां सितः पीतो रक्तो हरितमेचकौ ।
बोध्यग्री—वरदो—ध्यानं मुद्रा अभय-भू-स्पृशौ ॥
v2.c83.s4.63
१. अमिताभः—अ० सं०—पश्चिमे दले रविमण्डलोपरि रक्त-ह्रीः—कारसम्भूतॊ रक्तवर्णोऽमिताभः पद्मचिन्हसमाधिमुद्राधरः संज्ञास्कन्धस्वभावो……ग्रीष्मर्तु रूपःआम्लरसशरीरः तवर्गात्मा……जापमन्त्रश्चायं ओं आः आरोलिक हुम् ।
v2.c83.s4.64
२. अक्षोभ्यः—अ० सं०—नील-हुं-कारनिष्पण्णद्विभुज एकमुखो भूस्पर्शमुद्राधरो वज्रपर्यङ्की……कृष्णवज्रचिन्हः सुविशुद्धधर्मधातुविज्ञानस्कन्धस्वभावः……शिशरमध्याह्नकद्रुश्रुति-आकाशशब्दचवर्गो 'आः वज्रधृक् हुम्' अस्य जापमन्त्रः ।
v2.c83.s4.65
३. वैरोचनः—अ० सं०—ओंकारजः शुक्लवर्णः वैरोचनः शुक्लचक्रचिन्हः बोध्यग्रीमुद्राधरः रूपस्कन्धस्वभावः…हेमन्तऋतुविशुद्धः मधुरसशरीरः कवर्गव्यापी……'ओं आः जिनजिक हुं' इत्यस्य जपमन्त्रः ।
v2.c83.s4.66
४. अमोघसिद्धिः—अ० सं०—उत्तरदले श्यामखंकारजः(श्यामवर्णोऽमोघसिद्धिः विश्ववज्रचिन्हाभयमुद्राधरो संस्कारस्कन्धस्वभावो वर्षा-ऋतु-रूपः )……तिक्तरसात्मकः पवर्गविशुद्धः अस्य मन्त्रः—"ओं आः प्रज्ञाधृक् हुमिति" ।
v2.c83.s4.67
५. रत्नसंभवः—अ० सं०—दक्षिणदले सूर्य्यमण्डलोपरि त्रां-कारंजः पीतवर्णो रत्नसम्भवो रत्नचिन्हवरदमुद्राधरो !वेदनास्वभावपिशुनशरीरः……वसन्तऋतु-लवणशरीरः तवर्गव्यापी……'ओं आंः रत्नधृक् हुम्'—जपमंत्रः ।
v2.c83.s4.68
६. वज्रसत्वोऽपि—अ० सं०—वज्रसत्वस्तु हुंकारजन्मा……द्विभुज एकवक्त्रो वज्रवज्रघण्टाधरः मनस्स्वभाव काषायरसशरीरः शरद्-ऋतु-विशुद्धः यरलवाद्यात्मकः ।
v2.c83.s4.69
टि० १—ध्यानिबुद्धाः दिव्यबुद्धाः आदिबुद्धा वा सन्ति, तेषां दिव्यबुद्धशक्तिषु— १—वज्रधात्वीश्वरी २—लोचना ३—मामकी ४—पाण्डरा ५—आर्यतारा ६—वज्रसत्वात्मिकेति षण्णां ध्यानिबुद्धानां दिव्यशक्तयस्संकीर्त्यन्ते ।
v2.c83.s4.70
टि० २—दिव्यबोधिसत्वेषु च १—सामन्तभद्रः २—वज्रपाणिः ३—रत्नपाणिः ४—विश्वपाणिः ६—घण्टापाणिश्चेति यथाक्रमं षण्णां ध्यानिबुद्धानां बोधिसत्वाः व्यपदिश्यन्ते ।
v2.c83.s4.71
टि० ३—मानुषबुद्धेषु— १—विपश्यिन् २—शिखी ३—विश्वभूः ४—क्रकुच्छन्दः ५—कनकमुनिः ६—काश्यपः ७—शाक्यसिंहश्चेति सप्तानां विशेषतो परिसंख्यानम् । तत्रान्तिमस्य लक्षणं यथा साधनमालायां—
v2.c83.s4.72
गौतम बुद्धः—सव्यकरेण भूस्पर्शमुद्रां उत्सङ्गस्थितावसव्वहस्तं काषायवस्त्रावगुण्ठनं नीलगौररक्तश्यामचतुर्म्मारोपरि विश्वपद्मवज्रावस्थितं शान्तं लक्षणव्यञ्जनान्वितगात्रम् । तस्य भगवतो दक्षिणे मैत्रेयबोधिसत्वं गौरं द्विभुजं जटामुकुटिनं सव्यकरेण चामररत्नधारिणं अवसव्येन नागकेशरपुष्पच्छटाधारिणम् । तथा वामतो लोकेश्वरं शुक्लं दक्षिणकरेण चामरधरं वामकरेण कमलधरम् । भगवन्मुखावलोकनपरौ च तौ भावयेत् ।
v2.c83.s4.73
टि० ४— मानुषबुद्धशक्तिषु—१—विपश्यन्ती २—शिखिमालिनी ३—विश्वधरा ४—ककुद्वती ५—कण्ठमालिनी ६—महिधरा ७—यशोधरा चेति यथासंख्यं मानुषबुद्धानां शक्तयस्सन्ति ।
v2.c83.s4.74
टि० ५—मानुषबोधिसत्वेषु— १—महामतिः २—रत्नधरः ३—आकाशगञ्जः ४—शकमङ्गलः ५—कनक-राजः ६—धर्मधरः ७—आनन्दश्चेति यथासंख्यं मानुषबुद्धाना बोधिसत्वाश्च विभावनीयाः ।
v2.c83.s4.75
भावीबुद्धो मैत्रेयः—पीत-‘मै’-कारपरिणतं विश्वकमलस्थितं त्रिमुखं चतुर्भुजं कृष्ण-शुक्ल-दक्षिण-वाम-मुखं सुवर्णगौरं सत्वपर्यङ्किनं व्याख्यानमुद्राधरकरद्वयम् अपरदक्षिणवामभुजाभ्यां वरदपुष्पितनागकेशरमञ्जरीधरं नानालङ्कारधरम् आत्मानं मैत्रेयरूपमालम्ब्य…।
v2.c83.s4.76
सर्वतन्त्रस्वतन्त्रः मञ्जुश्रीः बोधिसत्वः—तस्य चतुर्दशरूपाणि
v2.c83.s4.77
अमिताभिर्भावी—१. वाक्—द्विभुजैकमुखं सितं वज्रपर्यङ्कोपरि समाधिमुद्राहस्तम् अशेषकुमाराभरणभूषितं पञ्चचीरकं मञ्जुश्रीभट्टारकं…निष्पाद्य……वज्रजिह्वोपरि बुद्धम् अमिताभं विचिन्त्य………ओं वाक्येदनमः इति जापमंत्रः ।
v2.c83.s4.78
२—धर्मधातुवागीश्वरश्च—अष्टभुजं चतुर्मुखं मूलमुखं रक्तगौरं दक्षिणं कुङ्कुमारुणं पश्चिमं पद्मरक्तम्, उत्तरं पीतरक्तं, द्वाभ्यां हस्ताभ्यां धनुर्बाणधरम्, अपराभ्यां पाशाङ्कुशधरं, पुनरपराभ्यां प्रज्ञापारमितापुस्तकखड्गधरं, तथापराभ्यां घण्टावज्रधरं महारागशृङ्गाररसोज्ज्वलं ललितासनस्थं विश्वपद्मचन्द्रे दिव्यवस्त्राभरणममिताभजटामुकुटिनम्…… ।
v2.c83.s4.79
अक्षोभ्याविर्भाविषु—३–मञ्जुघोषः—मञ्जुघोषरूपम् आत्मानं पश्येत् सिंहस्थं कनकगौरवर्णं सर्वालङ्कारभूषितं व्याख्यानमुद्राव्यग्रकरं वामपार्श्वे उत्पलधरमक्षोभ्यमुकुटिनम् । दक्षिणे सुधनकुमारं वामे यमान्तकं पश्येत् … …मंत्रं जपेत् ‘ओं वागीश्वर मुः … …।’
v2.c83.s4.80
४. सिद्धैकवीरः—सिद्धैकवीरो भगवान् चन्द्रमण्डलस्थः चन्द्रोपाश्रयो जगद्द्योतकारी द्विभुज एकमुखः शुक्लो वज्रपर्यङ्की दिव्यालङ्कारभूषितः पञ्चचीरकशिखरो वामे नीलोत्पलधरो दक्षिणे वरदः । ततश्च भगवतो मौलौ अक्षोभ्यं देवत्यः पूजां कुर्वन्ति ।
v2.c83.s4.81
५. वज्रानङ्गः—वज्रानङ्गमार्थ्यमञ्जुघोषं पीतवर्णं षड्भुजं मूलभुजाभ्यां आकर्णपूरितरक्तोत्पलकर्णिकाशरयुक्तकुसुमधनुर्द्धरं दक्षिणद्वयेन खड्गदर्पणभृतं वामयुगालेनेन्दीवररक्ताशोकपुष्पपल्लववरम् अक्षोभ्याधिष्ठितजटामुकुटिनं प्रत्यालीढपदं षोडशवर्षकारं महाशृङ्गारमूर्त्तिं पश्येत् ।
v2.c83.s4.82
६. नामसङ्गीतिः—रक्तगौरं पद्मचन्द्रोपरि वज्रपर्य्यङ्कनिषण्णं प्रथममुखं रक्तं दक्षिणं नीलं वामे शुक्लम् इति त्रिमुखं हस्तचतुष्टयेन यथायोगं प्रज्ञाखड्गधनुर्वाणयोगिनं रत्नकिरीटिनं द्वात्रिंशल्लक्षणाशीत्यनुव्यञ्जनविराजितं कुमारं कुमाराभरणभूषितमात्मानं विभाव्य………… तदनु सर्व्वतथागताभिषेकपूर्व्वकमक्षोभ्यमौलिमत्मानं विचिन्तयेत् ।
v2.c83.s4.83
पञ्चध्यानिबुद्धसमष्टावाविर्भविषु—७. वागीश्वरः—पञ्चवीरकशेश्वरं कुमारं सर्वाभरणभूषितं कुङ्कुमारुणं वामेनोत्पलं दक्षिणेन लीलया स्थितं सिंहासनस्थमात्मानं कुमारूपेण चिन्तयेत् ……ओं वागीश्वर मुः ।
v2.c83.s4.84
८. मञ्जुवरः—तप्तकाञ्चनाभं पञ्चवीरकुमारं धर्मचक्रमुद्रासमायुक्तं प्रज्ञापारमितान्वितनीलोत्पलधारिणं सिंहस्थं ललितक्षेपं सर्व्वलङ्कारभूषितं…ओं मञ्जुवर हुम् ।
v2.c83.s4.85
९. मञ्जुवज्रः कुङ्कुमारुणसंमूर्त्तिर्नीलसितत्रयाननः ।
भुजद्वयसमाश्लिष्टस्वाभविद्याधरास्यधृक् ॥
खड्गबाणभुजश्चापनीलोत्पलपरिग्रहः ।
विश्वदलाब्जचन्द्रस्थो वज्रासनशशिप्रभः ॥
v2.c83.s4.86
१०. मञ्जुकुमारः—मञ्जुकुमारं त्रिमुखं षड्भुजं कुङ्कमारुणं नीलसितदक्षिणेतरवदनं सत्त्वपर्य्यङ्किनं खड्गबाणवरदं दक्षिणकरत्रयं, प्रज्ञापारमितापुस्तकनीलोत्पलचापवद्वामकरत्रयं सश्शृङ्गारकुमाराभरणनिवसनादिकं नानापुष्पमधाशोभचीरत्रयविराजितं तथागतपरमानुपरिघटितं………।
v2.c83.s4.87
स्वतन्त्राविर्भाविषु—११. अपरचनः—वामकरकलितपुस्तकं तदितरहस्तविन्यस्तप्रज्ञाखड्गं पञ्चरत्नालङ्कृतमकुटं आकुञ्चितपञ्चचीरं वन्धूककान्तिवसनयुगलं यथायथमूचितस्थाननिवेशितरुचिरशृंगाराभरणं स्मितस्फुरत्कपोलस्थलं शरदभ्रवृन्दमिवैकत्र कृतावस्थानमन्धकारचकितमिव पुञ्जीकृतमालोकयेत् ।
v2.c83.s4.88
१२. स्थिरचक्रः—स्फुरदमलमिन्दीवरं मुः काराधिष्ठितकिञ्जल्कं विचिन्त्य तत्परिणतं कुङ्कुमाभं पञ्चचीरं कुमाराभरणं शृङ्गारैकरसं खड्गपुस्तकधरं वागीश्वरमात्मानं चन्द्रस्थं ध्यायात् ।
v2.c83.s4.89
१३. वादिराट्— स्वच्छं षोडशवत्सराकृतिधरं शार्दूलपृष्ठस्थितं
व्याह्याव्याकुलपाणिपद्मयुगलं वामार्द्धपर्य्यङ्किनम् ।
दीर्घं नापि न चापि खर्व्वमसमं सौन्दर्यराश्याश्रयं
रत्नस्वर्णमणिप्रकारविविधालङ्कारमालाकुलम् ॥
v2.c83.s4.90
१४. मञ्जुनाथः व्युत्थाय मञ्जुनाथस्य वहन् गर्वं समाहितः ।
……………………त्रिमुखं षड्भुजं तथा ॥
चक्रवज्रमहारत्नपद्मखड्गधरायुधम् ।
v2.c83.s4.91
बोधिसत्त्वः अवलोकितेश्वरः लोकेश्वरो वा—तस्य पञ्चदशरूपाणि
v2.c83.s4.92
१. षडक्षरी लोकेश्वरः—आत्मानं लोकेश्वररूपं सर्व्वालङ्कारभूषितं शुक्लवर्णं चतुर्भुजं वामतः पद्मधरं दक्षिणतो अक्षसूत्रधरं, अपराभ्यां हस्ताभ्यां हृदि संपुटाञ्जलिस्थितं ध्यायात् । दक्षिणे मणिधरं तद्वद्वर्णभुजान्वितं पद्मान्तरोपरिस्थम् वामे तथैव अपरपद्मस्थां षडक्षरी-महाविद्याम् ।
v2.c83.s4.93
२. सिंहनादः—श्वेतं जटामकुटिनं त्रिनेत्रं द्विभुजं तपस्विषेषधरं महाराजलीलया स्थितं वामहस्तादुत्थितपद्मोपरि ज्वलदूर्ध्वखड्गं दक्षिणे सितत्रिशूलं सितफणिवेष्टितं वामे नानासुगन्धिपुष्पैः पूर्णं श्वेतकपालम् अमिताभमुकुटिनं स्फुरत्पञ्चतथागतं महानिर्म्माण-रूपिणं ध्यायात् ।
v2.c83.s4.94
३. खसर्पणः—आत्मानं भगवन्तं ध्यायात् हिमकरकोटिकिरणावदातं देहमूरूजटा-मुकुटममिताभशेखरं विश्वनलिननिषण्णं शशिमण्डले अर्द्धपर्य्यङ्कनिषण्णं सकलालङ्कारधर-विग्रहं स्मेरमुखं द्विरष्टवर्षदेशीयं दक्षिणे वरदकरं वामकरेण सनालकमलधरं कर-विगलत्पीयूषधाराभ्यवहाररसिकं तदधः समारोपितोर्ध्वमुखं महाकुक्षिमतिकृशमति-शितिवर्णं सूचीमुखं तर्पयन्तं श्रीमत्पोतलकाचलोदरनिवासिनं करुणास्निग्धविलोकमं शृङ्गाररसपर्य्युपासितमतिशान्तं नानालक्षणालङ्कृतम् ।
v2.c83.s4.95
तस्य पुरतस्तारा दक्षिणपार्श्वे सुधनकुमारः । तत्र तारा श्यामा वामकरविधृतं सनाल-मुत्पलं दक्षिणकरेण विकाशयन्ती नानालङ्कारवती अभिनवयौवनोद्भिन्नकुचभारा । सुधनकुमारश्च कृताञ्जलिपुटः कनकावभासद्युतिः कुमाररूपधारी वामकक्षविन्यस्तपुस्तकः सकलालङ्कारवान् ।
v2.c83.s4.96
पश्चिमे भ्रुकुटी हयग्रीव उत्तरे । तत्र भ्रुकुटी चतुर्भुजा हेमप्रभा जटाकलापिनी वामे त्रिदण्डीकमण्डलुधारिहस्ता दक्षिणे वन्दनाभिनयाक्षसूत्रधरकरा त्रिनेत्रा । हयग्रीवो रक्तवर्णः खर्व्वलम्बोदरः ऊर्ध्वज्वलत्पिङ्गलकेशः भुजगयज्ञोपवीती कपिलतरश्मश्रुश्रेणी-परिचितमुखमण्डलः रक्तवर्तुलत्रिनेत्रः भ्रुकुटीकुटिलभ्रूः व्याघ्रचर्म्माम्बरः दण्डायुधः दक्षिणकरेण वन्दनाभिनयी । एते सर्व्व एव स्वनायक Piercedदृष्टयो यथाशोभमवस्थिता-श्चिन्तनीयाः
v2.c83.s4.97
४. लोकनाथः
v2.c83.s4.98
पूर्व्ववत् क्रमयोगेन लोकनाथं शशिप्रभम् ।
ह्रींकाराक्षरसंभूतं जटामुकुटमण्डितम् ॥
वज्रधर्मजटान्तःस्थं अशेषरोगनाशनम् ।
वरदं दक्षिणे हस्ते वामे पद्मधरं तथा ॥
ललिताक्षेपसंस्थं तु महासौम्यं प्रभास्वरम् ।
वरदोत्पलकरा सौम्या तारा दक्षिणतः स्थिता ॥
वन्दनादण्डहस्तस्तु हयग्रीवोऽथ वामतः ।
रक्तवर्णो महारौद्रो व्याघ्रचर्म्माम्बरप्रियः ॥
v2.c83.s4.99
५. हालाहलः
v2.c83.s4.100
ह्रींकारबीजनिष्पन्नं हालाहलं महाकृपम् ।
त्रिनेत्रं त्रिमुखं चैव जटामुकुटमण्डितम् ॥
v2.c83.s4.101
प्रथमास्यं सितं नीलदक्षिण वामलोहितम् ।
शशाङ्कार्द्धधरं मूर्ध्नि कपालकृतशेखरम् ॥
जटान्तःस्थिनिं सम्यक् सर्वाभरणभूषितम् ।
सितारविन्दनिर्भासं शृंगाररससुन्दरम् ॥
षड्भुजं स्मेरवक्त्रं च व्याघ्रचर्माम्बरप्रियम् ।
वरदं दक्षिणे पाणौ द्वितीये चाक्षमालिकम् ॥
तृतीये शरनर्त्तनं च वामे चापधरं तथा ।
द्वितीये सितपद्मं च तृतीये स्तनमेव च ॥
v2.c83.s4.102
६.(अ) पद्मर्न्तश्वरः—पद्मनर्त्तेश्वराम्नायेनाय्र्यविलोकितश्वरभट्टारकमात्मानं विभावयेत् एकमुखम् अष्टादशभुजमर्द्धपर्य्यङ्किनं अमिताभजटाजूटमण्डलं, सर्व्वकरैर्विश्वपद्मधारिणम्, योगिनीवृन्दपरिवृतं, दक्षिणवामपार्श्वस्थिततारासुधनभ्रकुटीहयग्रीवं, दिव्यालङ्कारभूषणम् ।
v2.c83.s4.103
(ब) पद्मनर्त्तेश्वरमात्मानं भावयेत् सत्त्वपर्य्यङ्कनिषण्णं द्विभुजैकमुखं रक्तं सकलालङ्कारधरम् अमिताभमकुटं वामपार्श्वे पाण्डरवासिनीतमाश्लिष्टम् आलिङ्गनाभिनयस्थितवामभुजेन रक्तपद्मधर्ं नर्त्तनाभिनयेन सूचीमुद्रया विकाशदपरदक्षिणकरम् ।
v2.c83.s4.104
(स) पद्मनर्त्तेश्वरं रक्तवर्णमेकमुखं जटामुकुटिनं त्रिनेत्रमष्टभुजं सर्व्वालङ्कारभूषितं सर्पयज्ञोपवीतमर्द्धपर्य्यङ्केन ताण्डवं । प्रथमभुजद्वयेन नृत्याभिनयं द्वितीयदक्षिणभुजेन हृदि विकाशयन्तं सूचीमुद्रां वामभुजेन रक्तपद्मं शिरसि धृतं तृतीयभुजद्वयेन वज्रवह्णदण्डत्रिशूलधरं चतुर्थभुजद्वयेन अक्षसूत्रकुण्डिकाधरं अष्टदेवीपरिवृतम् एवंभूतं पद्मनर्त्तेश्वरलोकनाथं भावयेत् ।
v2.c83.s4.105
७. हरिहरिहरिवाहनोद्भवः—हरिहरिहरिवाहनोद्भवं भगवन्तमार्य्यावलोकितेश्वरं सर्व्वाङ्गशुक्लं जटामकुटिनं शान्तवेशं, दक्षिणकरेण भगवन्तं तथागतं साक्षिणं कुर्व्वन्तं, द्वितीयेन अक्षमालाधारिणं, तृतीयेन दुःखहर्कं लोकमुपदिशयन्तं, वामेन दण्डधरं, द्वितीयेन कृष्णाजिनधरं, तृतीयेन कमण्डलुधरं, सिंहगरुड़विष्णुस्कन्धसंस्थितमात्मानं ध्यात्वा . . . . . ।
v2.c83.s4.106
८. त्रैलोक्यवशङ्करः—लोकेश्वरं सर्व्वाङ्गमहारागरक्तमेकमुखं द्विभुजं त्रिनेत्रं जटामकुटमण्डितं वज्राङ्कितपाशाङ्कुशहस्तं रक्तपद्मे वज्रपर्य्यङ्कनिषण्णं दिव्याभरणवस्त्रविभूषितमात्मानं विचिन्त्य . . . . . ।
v2.c83.s4.107
९. (अ) रक्तलोकेश्वरः—दक्षिणोत्तरपार्श्वे ताराभृकुटीदेवीद्वयसहितम् आर्य्यावलोकितेश्वरभट्टारकं रक्तवर्णं रक्तमाल्याम्बरानुलेपनं पाशाङ्कुशधनुर्बाणधरं चतुर्भुजं शृंगारेकरसं रक्तकुसुमयिताशोकतरौरधस्तादवस्थितमात्मानं विचिन्तयेत् .. ... ।
v2.c83.s4.108
(ब) रक्तवर्णम् अमिताभगर्भजटामुकुटधरं वामकरगृहीतरक्तपद्मं तच्च दक्षिणकरेण विकासयन्तं विविधा्वलङ्कारभूषितम् ।
v2.c83.s4.109
१०. मायाजालक्रमः—भगवन्तमार्य्यावलोकितेश्वरं कृष्णवर्णं प्रत्यालीढस्थं सूर्य्यमण्डलस्थितं पञ्चमुखं त्रिनेत्रं द्वादशभुजं सितरक्तदक्षिणमुखद्वयं तथा पीतहरितवाममुखद्वयं दक्षिणाभुजैः डमरुखट्वाङ्गाङ्कुशपाशवज्रशरधरं वामभुजैस्तर्जनीकपालरक्तकमलमणिचक्र- चापधरं दंष्ट्राकरालसकलबदनं षण्मुद्रोपेतं सार्द्रमुण्डमालालब्रुकृतशरीरं नग्नं सर्वाङ्गसुन्दरमात्मानं झटिति प्रत्याकलप्य . . . . . ।
v2.c83.s4.110
११ नीलकण्ठः—भगवन्तं पीतवर्णम् अर्द्धचन्द्राङ्कितजटामकुटिनम् अमिताभोपलक्षितशिरःप्रदेशं रक्तपद्मोपरिस्थितं कृष्णसारहरिणचर्म्मणि वज्रपर्य्यङ्किनं समाधिमुद्रोपरि नानारत्नपरिपूर्णकपालधारिणं एणेयचर्म्मकृतयज्ञोपवीतिनं व्याघ्रचर्म्माम्बरधरं निराभरणं नीलकण्ठं नीलगुलिकाविशिष्टकण्ठं पार्श्वद्वये परस्पराभिसम्बद्धपुच्छसमणिफणाविशिष्टभगवदवलोकनपरोर्ध्वमुखकृष्णसर्पद्वयोपलक्षितमात्मानमेवं विभावयेत् ।
v2.c83.s4.111
१२. सुगतिसन्दर्शनः—सुगतिसन्दर्शनलोकेश्वरभट्टारकं शुक्लवर्णं षड्भुजं वरदाभयाक्षमालाधरं दक्षिणे, वामे पद्मकुण्डीत्रिदण्डीधरं च रत्नाभरणभूषितं व्रतसूत्रधारिणं जटामुकुटिनं पद्मोपरि चन्द्रमण्डलस्थितं सौम्यरूपं भावयेत् ।
v2.c83.s4.112
१३. प्रेतसन्तर्पितः—जटामुकुटिनं षड्भुजं प्रथमभुजद्वयेन वरदौ द्वितीयभुजद्वयेन रत्नपुस्तकौ तृतीयभुजद्वयेन अक्षमालात्रिदण्डिकं सर्व्वाल्लङ्कारभूषितं व्रताक्षसूत्रधारिणं सौम्यमूर्त्ति पद्मोपरि चन्द्रमण्डले स्थितं श्वेतवर्णं विभावयेत् ।
v2.c83.s4.113
१४. सुखावतीलो०—त्रिमुखश्वेतवर्णः षड्भुजः दक्षि मुद्रामध्य शरक्षेपजपमालावरदानि, वामेषु धनुःकमलतारोत्सङ्गमर्पणानि ललितासनः कमलोपरि वज्रताराविश्वतारापद्मताराभिः परिवृतः । उपरि चैत्यः ।
v2.c83.s4.114
१५. वज्रधर्मः
v2.c83.s4.115
तं सितं रक्तवर्णं तु पद्मरागमद्युतिम् ।
पञ्चबुद्धमुकुटधरं हर्षेणोत्फुल्ललोचनम् ॥
वामतो स्पर्द्धया नालं धृत्वा षोडशपत्रकम् ।
पद्मं विकासयन्तं च हृदि दक्षिणपाणिना ॥
मयूरोपरि मध्यस्थे निषण्णं चन्द्रमण्डले ।
सत्त्वपर्य्यङ्कमाभुज्य सश्शृङ्गाररसोत्सवम् ॥
चैत्यान्तःस्थ महाकर्मकूटगारविहारिणम् ।
भावयेद् वज्रधर्म्माग्र्यं नित्यं बोधिमवाप्नुयात् ॥
v2.c83.s4.116
अमिताभविभावेषु—देवौ देव्यश्च
v2.c83.s4.117
१. महाबलः—महाबलमेकमुखं चतुर्भुजं सर्व्वाङ्गरक्तमूर्ध्वपिङ्गल सर्पावबद्धकेशं दक्षिणभुजाभ्यां सितदण्डसितचामरधरं वामभुजाभ्यां वन्दनाभिनयसपाशतर्ज्जनीकरं व्याघ्रचर्म्मनिवसनं सर्पाभरणं प्रत्यालीढं दंष्ट्राकरालवदनं सूर्य्यमण्डलप्रभामालिनम् अमिताभमुकुटिनं ध्यायात् ।
v2.c83.s4.118
२. सप्तशतिकहयग्रीवः—रक्तवर्णं महाभयानकं त्रिनेत्रं कपिलश्मश्रुरौद्रं बृहदुदरं दंष्ट्राकरालिनं दन्तौष्ठकपालमालिनं जटामुकुटिनम् अमिताभशिरस्कं द्वितीयमुखं भीमभयानकं नीलं हयाननं हीहीकारनादिनं ब्रह्माण्डशिखराक्रान्तं, द्वितीयेन भवाग्रपर्य्यन्तं अष्टनागोपेतं खर्व्ववामनाकारं व्याघ्रचर्म्मनिवसनं सर्व्वाल्लङ्कारभूषितं सकलदेवासुरंतर्ज्जयन्तं गृहीतवज्रदण्डं . . . . . ।
v2.c83.s4.119
३. कुर्कुकुल्ला—(i) शुक्ला—आत्मानं भगवतीमक्षसूत्रोत्पलामृतकुण्डीं सव्यासव्यपाणिभ्यां दधानां त्रिनेत्रां पद्मभृक्प्रमुखैः सर्व्वतथागतैः वीणादिषोडशदेवीभिरभिषिक्ताम् अमिताभवि- राजितनानापुष्पोपशोभितजटामुकुटां शृंगारादिरसोपेतां किञ्चित्सव्यपाणिपल्लवस्थाक्षसूत्र-मालोकानानां क्षीराम्भोधिध्वेत्तवर्णाब्जस्थाममृताङ्कोपरि सत्त्वपर्य्यङ्कासनस्थां कङ्कणकेयूर-कुण्डलनूपुरमुक्ताहारदिव्यवस्त्रादिविभूषितां नीलांनन्तबद्धकेशीं पीयूषवर्णवासुकिकृतहारं रक्ततक्षककृतकर्णोग्रकुण्डलां दूर्व्वाश्यामककर्कोटककृतयज्ञोपवीतां शुक्लपद्मनागेन्द्रकृतहारं मृणालवर्णमहापद्मकृतनूपुरां पीतशङ्खपालंकृतकङ्कणां धूमाभ्रवत्कुलिककृतकेयूरां शुभ्रवर्णा स्रवदमृतविग्रहां करुणाईचित्तां भावयेत् ।
v2.c83.s4.120
(ii) तारोद्भवा-रक्तवर्णां रक्तपद्मचन्द्रासनां रक्तपट्टांशुकोत्तरीयां रक्तप्रभावलयां रक्तताटङ्ककिरीटिनीं चतुर्भुजां सव्ये अभयप्रदां द्वितीये समापूरितशरां वामे रत्नचापधरां द्वितीये रक्तोत्पलधराम् अमिताभतथागतमुकुटां कुरुफुल्लपर्व्वतगुहास्थितराहुमस्तकस्थित-सपत्नीककामदेवोपरिस्थितां शृंगाररसान्वितप्रथमयौवनोपेतां कुरुफुल्लां भावयेत् ।
v2.c83.s4.121
(iii) उड्डियानकु०-द्विरष्टवर्षाकारां ज्वलत्पिङ्गलोर्द्धमूर्द्धजां पञ्चकपालशिरोधरां शवारूढां मुण्डमालालङ्कृतहारां अर्द्धपर्य्यङ्कनाट्यस्थाम् ईषदंष्ट्राकरालवदनां ललज्जिह्वां चक्रीकुण्डल कण्ठिका केयूर मेखलानूपुरकृतभूषणां व्याघ्र चर्मनिवसनां चलद्रक्तवर्तुलचापारो-पितत्रिनेत्राम् अमिताभनाथमुकुटीं चतुर्भुजाम् आकर्णपूरितरक्तोत्पलकलिकाशर पूरितरक्तकु-सुमधनुर्द्धरां शेषद्विभुजाभ्यां रक्तपुष्पकृताङ्कुशरक्तोत्पलंधारिणीं विचिन्तयेत् ।
v2.c83.s4.122
(iv) अष्टभुजा-कुरुफुल्लां भगवतीं अष्टभुजां रक्तवर्णां रक्ताष्टदलपद्मसूर्ये वज्रपर्य्यङ्कनिषण्णां कूटागारमध्यनिवासिनीं प्रथमकरद्वयेन त्रैलोक्यविजयमुद्राधरां अवशिष्टदक्षिणकरैः अङ्कुशम् आकर्णपूरितशरं वरदमुद्रां दधानां, परिशिष्टवामभुजैः पाशं चापम् उत्पलं दधानां सकलालङ्कारवतीं भावयेत् । पूर्व्वदले प्रसन्नतारां दक्षिणदले निष्पन्न-तारां पश्चिमदले जयतारां उत्तरदले कर्णतारा म् ऐशानदले चुन्दाम् आग्नेयदले अपराजितां नैर्ऋत्यदले प्रदीपतारां वायव्यदले गौरीताराम् च ध्यायात् । एताश्च सर्व्वा रक्तवर्णाः पञ्चतथागतमुकुटचः वज्रपर्य्यङ्कनिषण्णा दक्षिणभुजाभ्यां वरदमुद्राकर्णपूरितशरधराः वाम-भुजाभ्यां उत्पलचापधराः, पूर्व्वद्वारे वज्रवेतालीं लम्बोदरां विकृतमुखीं रक्तवर्गाम् अक्षोभ्य-मुकुटां दक्षिणहस्ताभ्यां तर्ज्जन्यङ्कुशधरां वामकराभ्यां वज्रघण्टापाशधराम्, दक्षिणद्वारे अपराजितां पीतवर्णां रत्नसम्भवमुकुटां दक्षिणहस्ताभ्यां दण्डाङ्कुशधरां वामहस्ताभ्यां घण्टापाशधराम्, पश्चिमद्वारे एकजटां कृष्णवर्गाम् ऊर्ध्वकेशां लम्बोदरां दन्तावष्टब्धौष्ठाम् अमिताभमुकुटां दक्षिणकराभ्यां वज्राङ्कुशधरां वामकराभ्यां घण्टापाशधराम्, उत्तरद्वारे वज्रगान्धारीं कनकशामां अमोघसिद्धिमुकुटां विकृतमुखीं लम्बोदरां दक्षिणभुजाभ्यां खड्गाङ्कुशधरां वामभुजाभ्यां घण्टापाशधरां चिन्तयेत् । एताश्चतस्र आलीढपदस्थाः ।
v2.c83.s4.123
४. भृकुटी-चतुर्भुजैकमुखीं पीतां त्रिनेत्रां नवयौवनां वरदाक्षसूत्रदक्षिणकरां, त्रिदण्डकमण्डलुधरवामकराम् अमिताभमुद्रितां पद्मचन्द्रासनस्थां भगवतीं ध्यात्वा...।
v2.c83.s4.124
५. महासितवती-महासितवती चतुर्भुजैकमुखी रक्ता दक्षिणभुजद्वये अक्षसूत्रवरद-वती वामभुजद्वये वज्राङ्कुशहृत्प्रदेशस्थ पुस्तकवती ह्रींबीजा अमिताभमुकुटी अर्द्धपर्य्यङ्क-स्थिता नानालङ्कारवती सूर्यासनप्रभा चेति ।
v2.c83.s4.125
अक्षोभ्याविर्भाविषु देवाः-
v2.c83.s4.126
१. चण्डरोषणः - श्रीचण्डमहारोषणं भगवन्तमंसीपुष्पसङ्काशमचलापरनाभानमेकमुखं
v2.c83.s4.127
द्विभुजं केकराक्षं दंष्ट्राविकरालमहाघोरवदनं रत्नमौलिनं दंष्ट्रानिपीड़िताधरं मुण्डमालां-शिरस्कमारक्तचक्षुद्वयं दक्षिणे खड्गधरं तर्जनीपाशहृदयस्थवामकरं सितसर्पयज्ञोपवीतं व्याघ्रचर्म्मनिवसनं नानारत्नविरचिताभरणं भूमिलग्नवामचरणमीषददुन्नतदक्षिणचरणं सूर्य्यप्रभामालिनमात्मानं विचिन्त्य…………अक्षोभ्यमुकुटिनं ध्यायात्।
v2.c83.s4.128
२. हेरुकः शवस्थमर्द्धपर्य्यङ्कं नरचर्म्मसुवाससम् ।
(i) द्विभजः भस्मोद्धूलितगात्रं च स्फुरद्वज्रं च दक्षिणम् ॥
चलत्पताकाखट्वाङ्गं वामे रक्तकरोटकम् ।
शतार्द्धमुण्डमालाभिः कृतहारमनोरमम् ॥
ईषदंष्ट्राकरालास्यं रक्तनेत्रं विलासिनम् ।
पिङ्गोर्ध्वकेशमक्षोभ्यमकुटं कर्णकुण्डलम् ॥
अस्थ्याभरणशोभं तु शिरः पञ्चकपालकम् ।
बुद्धत्वदायिनं ध्यायात् जगन्मारनिवारणम् ॥
(ii) शक्त्यालिङ्गितः दंष्ट्रोत्कटमहाभीममुण्डस्रग्दामभूषितम् ।
भक्ष्यमाणं महामांसं श्रीहेरुकं नमाम्यहम् ॥
v2.c83.s4.129
३. बुद्धकपालः-……महावीरो घोरसंहारका, नीलवर्णो महावपुः अस्थ्याभर-णमर्द्धपर्य्यङ्कनृत्यस्थं मुण्डमालाविवभूषितं मुकुटे अक्षोभ्यधारिणम् एकवक्त्रं चतुर्भुजं वामे खट्वाङ्गकपालं दक्षिणे कत्र्तिडमरुकं प्रज्ञालिङ्गितं, वामे चित्रसेना मत्ता नग्ना मुक्तकेशी सर्व्वभयरहिता देवी चुम्बयन्ती मुहुर्मुहुः एवम् आत्मानं ध्यात्वा…………।
v2.c83.s4.130
४. वज्रडाकः ललितस्थं कपालमालं चन्द्रार्धं मूर्धनि धारयेत् ।
(i) सम्वरः षण्मुद्रा मुण्डमाल च विश्ववज्री त्रिलोचनः ।।
आलीढपादविन्यासो विश्वाक्षरविवर्तिनीः ।
सभरैवां कालरात्रिम Folder ारूढो व्याघ्रचर्मभृत् ।।
अक्षोभ्यशेखरः कृष्णो वज्रघण्टाजटान्वितः ।
वीरोऽसौ वज्रवाराही वज्रालङ्कपूर्णकपालभृत् ।।
खट्वाङ्गमेखला रक्ता त्रिनेत्रा मुण्डमालिनी ।
पञ्चमुद्रा मुक्तकेशी दिग्वस्त्रा बुद्धशेखरा ।।
(ii) सप्ताक्षरः षड्भुजं त्रिमुखं त्र्यक्षं सर्व्वलक्षणलक्षितम् ।
व्यञ्जनाशीतिसंयुक्तम् आलिकात्युद्भवं प्रभुम् ।।
वज्रघण्टास मापन्नं नरचर्म्माद्रिंधारिणम् ।
वामे कपालखट्वाङ्गत्रिशूलं दक्षिणे करे ।।
कपालमालाम्रुकुटिं विश्ववज्रजटाधरम् ।
अर्द्धेन्दुशेखरं चैव षण्मुद्रादेहभूषणम् ।।
नीलपीतहरितवक्त्रं व्याघ्रचर्म्माम्बरावृतम् ।
आलीढक्रान्तसूर्य्यस्थभैरवकालरात्रिकम् ।।
यथा नाथस्य तथा वज्रवाराह्यापि भुजादिभिः ।
देवी जानु समावेष्ट्य परमानन्दविह्वला ।।
सप्ताक्षरमण्डलञ्च हेरुकी प्रथमादेवी द्वितीया वज्रभैरवी ।
v2.c83.s4.131
तृतीया घोरचण्डी च चतुर्थी वज्रभास्करी ॥
पञ्चमी वज्ररौद्री च षष्ठी स्याद् वज्रडाकिनी ।
नीला पीता रक्ता हरिता धूम्रा सिता देव्यः ॥
मुक्तकेशा महारौद्रा त्रिनेत्राश्च दिगम्बराः ।
रणड्डमरुघण्टा च हस्तेतरकरद्वये ॥
दधाना नरचर्म्माणि प्रेतसूर्य्योपरि स्थिताः ।
कपालमालामुकुटा आलीढासनसंस्थिताः ॥
षडक्षरभवा भव्या देव्यः सर्व्वा यथाक्रमम् ।
(iii) महामाया महामायाह्वयं देवं चतुर्मुखं चतुर्भुजम् ॥
अङ्के यस्य तथा देवी चतस्रो दिक्षु चापराः ।
v2.c83.s4.132
पूर्व्वदले वज्रडाकिनीं नीलवर्णां नीलपीतसितहरितवदनां वज्रकपालघण्टाखट्वाङ्गधारिणीम्, दक्षिणदले रत्नडाकिनीं पीतनीलसितहरितवदनां रत्नच्छटात्रिशूलग्रीवानिपीडितजम्बूकपताकाधारिणीम्, पश्चिमदले पद्मडाकिनीं सितवर्णां सितपीतनीलहरितवदनां विश्वकमलशरकपालचापधराम्, उत्तरदले विश्वडाकिनीं हरितवर्णां हरितपीतसितनीलवदनामसिडमरूपाशकपालधराम् ।
v2.c83.s4.133
५. हयग्रीवः—आर्य्यहयग्रीवं रक्तवर्णं त्रिमुखमष्टभुजं प्रतिमुखं त्रिनेत्रं नीलसितदक्षिणेतरवदनं सर्प्पाभरणं ललिताक्षेपपदविन्यासं सक्रोधदृष्टिनिरीक्षणं प्रथममुखं स्मेरं ललज्जिह्वं दक्षिणमुखं दंष्ट्रावष्टब्धौष्ठं व्याघ्रचर्म्मनिवसनं वज्रदण्डकरणमुद्राशरोद्यतदक्षिणकरचतुष्टयं तर्ज्जनिकास्वकुचग्रहणपद्मधनुुरुद्यतवामकरचतुष्टयम् अक्षोभ्यमौलिनं ध्यायात् ।
v2.c83.s4.134
६. यमारिः—(i) रक्तयमारिः—आत्मानं यमान्तमेकमुखं द्विभुजं प्रत्यालीढपदं रक्तपरिपूर्णकपालवामकरं सार्द्रपीतमुण्डाङ्कितसितदण्डदक्षिणकरं नागाभरणविभूषणं पिङ्गलोर्ध्वकेशं व्याघ्रचर्म्माम्बरधरम् अक्षोभ्यमुकुटिनं स्वाभप्रज्ञालिङ्गितं महिषोपरि विश्वदलकमलसूर्य्यस्थं ध्यायात् । भगवतीं च द्विभुजैकमुखीं विचित्राभरणामालीढपदस्थितां मदविह्वलां स्खलद्व्याघ्रचर्म्मांशुकां भगवता सह सम्पुटयोगेन प्रत्यालीढेनावस्थितां एवं विचिन्त्य...।
v2.c83.s4.135
(ii) कृष्णयमारिः अ. यमारिरतिभीषणः ।
कठोरबर्हिकण्ठाभो सव्ये शुक्लारुणेतरः ॥
क्रोधपर्य्यङ्कयोगेन विश्वाब्जरविसंस्थितः ।
स्वाभविद्याधरास्वादरसायनमहासुखः ॥
कठोरोर्ध्वज्वलत्केशः पिङ्गभ्रूश्मश्रुलोचनः ।
फणीन्द्रवृन्दनेपथ्यो मृणालधवलद्विजैः ॥
मुद्गरासिधरः सव्ये वामे राजीव रत्नधृक् ।
v2.c83.s4.136
ब. आत्मानं प्रत्यालीढपदस्थितं एकमुखं द्विभुजं नीलवर्णं दक्षिणकरे वज्राङ्कितोद्यतनीलदण्डं वामकरे तर्जनीपाशं हृदि, एवम्भूतं यमारिं स्फुरत्संहाररूपं विश्वदलकमलोपरि सूर्य्यस्थं महिषारूढं भावयेत् ।
v2.c83.s4.137
७. अं. जम्भालः—जम्भालं त्रिमुखं षड्भुजं अक्षोभ्यजटामुकुटिनं दक्षिणत्रिभुजैः मातुलुङ्गाङ्कुशबाणधरं प्रथमवामभुजैकेन वामपापार्श्वस्थितप्रज्ञालिङ्गितमपरवामभुजाभ्यां सपाशनकुलकार्म्मुकधरमात्मानं निष्पाद्य .........।
v2.c83.s4.138
ब. उच्छूष्मजम्भालः-आत्मानं भगवन्तं उच्छूष्मं पञ्चवर्षकुमाराकृतिं खर्व्वं विश्वपद्मस्थं चन्द्रोपरि सर्पाभरणभूषितं रत्नमुकुटि मुञ्चद्रत्नमुखपीताङ्गुसुप्तधनदस्य ललाटं दक्षिणेन चरणेन चरणद्वयं वामेनाक्रान्तमूर्तिं प्रत्यालीढपदं नग्नम् ऊर्ध्वलिङ्गं लम्बोदरं हृदि दक्षिणपाणिस्थरक्तपूर्णकपालाभिमुखदृष्टिं वामजङ्घासक्तवामकरेण रत्नच्छोटोद्गार्य्यधोमुखनकुलीं दधानमविद्धद्दोलत्कर्णद्वयमर्द्धेन्दुदंष्ट्राकरालवदनं रक्तवर्त्तुलत्रिनेत्रं कृतभृकुटीललाटं पिङ्गोर्ध्वकेशं भूपर्शमुद्रनीलाक्षोभ्यमुनिमुद्रितमस्तकं ..... ।
v2.c83.s4.139
अक्षोभ्याविर्भूताः देव्यश्च
v2.c83.s4.140
१. महाचीनतारा
v2.c83.s4.141
(i) सा० मा०
v2.c83.s4.142
प्रत्यालीढपदां घोरां मुण्डमालाप्रलम्बिताम् ।
खर्व्वंलम्बोदरां भीमां नीलनीरजराजिताम् ॥
त्र्यम्बकैकमुखां दिव्यां घोराट्टहासभासुराम् ।
सुप्रहृष्टां शवारूढां नागाष्टकविभूषिताम् ॥
रक्तवर्त्तुलनेत्रां च व्याघ्रचर्म्मावृतां कटौ ।
नवयौवनसम्पन्नां पञ्चमुद्राविभूषिताम् ॥
ललज्जिह्वां महाभीमां सदंष्ट्रोत्कटभीषणाम् ।
खड्गकर्त्त्रिकरां सव्ये वामोत्पलकपालधाम् ॥
पिङ्गोप्रैकजटां ध्यायात् मौलावक्षोभ्यभूषिताम् ।
v2.c83.s4.143
(ii) त० सा०
v2.c83.s4.144
प्रत्यालीढापदां घोरां मुण्डमालाविभूषिताम् ।
खर्ध्वां लम्बोदरीं भीमां व्याघ्रचर्म्मावृतां कटौ ॥
नवयौवनसम्पन्नां पञ्चमुद्राविभूषिताम् ।
चतुर्भुजां लोलजिह्वां महाभीमां वरप्रदाम् ॥
खड्गकर्तृसमायुक्तां सव्येतरभुजद्वयाम् ।
कपालोत्पलसंयुक्तसव्यपाणियुगान्विताम् ॥
पिंग्रोग्रैकजटां ध्यायेन्मौलौ अक्षोभ्यभूषिताम् ।
बालार्कमण्डलाकारलोचनत्रयभूषिताम् ॥
जलच्चितामध्यगतां घोरदंष्ट्रां करालिनीम् ।
सावेशस्मेरवदनां स्त्यलङ्कारविभूषिताम् ॥
विश्वव्यापकतोयान्तः श्वेतपद्मोपरिस्थिताम् ।
अक्षोभ्यदेवीमूर्द्धन्यस्त्रीमूर्त्तिनगिरूपधृक् ॥
v2.c83.s4.145
२. अ-जाङ्गुली—आत्मानमार्य्यजाङ्गुलीरूपं सर्वशुक्लां चतुर्भुजामेकमुखां जटामुकुटिनीं शुक्लोत्तरीयां सितरत्नालङ्कारभूषितां शुक्लसर्पविभूषितां सत्वपर्यङ्कमाविष्टां मूलभुजाभ्यां वीणां वादयन्तीमपरदक्षिणेनाभयप्रदां चन्द्रांशुमालिनीम् ।
v2.c83.s4.146
ब-आर्य्यजाङ्गुलीमात्मानं झटिति निष्पादयेत् पीतां त्रिमुखां षड्भुजां नीलासितदक्षिणेतरवदनां खड्गवज्रबाणदक्षिणहस्तत्रयां सतर्ज्जनीपाशविषपुष्पकार्म्मुक-..
v2.c83.s4.147
कर्त्त्रयां स्फीतफणामण्डलशिरःसर्पस्थां सर्वदिव्यवस्त्राभरणभूषितां कुमारीलक्षणोज्ज्वलाम् अक्षोभ्याक्रान्तमस्तकां ध्यात्वा…………।
v2.c83.s4.148
३. एकजटा कृष्णवर्णाः मताः सर्वा व्याघ्रचर्मावृताः कटौ ॥
(i) सामान्या एकवक्त्राः त्रिनेत्राश्च पिङ्गोर्ध्वकेशमूर्द्धजाः ॥
खर्वा लम्बोदरा रौद्राः प्रत्यालीढपदस्थिताः ॥
सरोषकरालवक्त्राः मुण्डमालाप्रलम्बिताः ॥
कुणपस्था महाभीमा मौलावक्षोभ्यभूषिताः ।
नवयौवनसम्पन्नाः घोराट्टहासभासुराः ॥
v2.c83.s4.149
(ii) विद्युज्जालकराली—द्वादशमुखां महाकृष्णवर्णां चतुर्विंशतिभुजां चतुर्मारसमाक्रान्तां श्वेतकपालोपरि प्रत्यालीढपदां महाप्रलयाग्निसमप्रभां विवृतास्यां हाहाकारां ललज्जिह्वां सरोषां विकृतकोटिभीमभ्रुकुटीतटोद्भूनेत्रचलद्दंष्ट्रां भयस्यापि भयङ्करीं कपालमाला शिरसि भूषितां व्याडैरलङ्कृतां षण्मुद्रोपेतां प्रथममुखं महाकृष्णं तथा दक्षिणमुखपञ्चकं सितपीतहरितरक्तधूम्रवर्णं च वाममुखपञ्चकं रक्तसितपीतहरितसितरक्तं च ऊर्ध्वमुखं धूम्र-विकृतं क्रुद्धं सर्व्वमुखानि दंष्ट्राकरालवदनानि त्रिनेत्राणि ज्वलितोर्ध्वपिङ्गलकेशानि सरोषां खर्व्वलम्बोदरीं पीनोन्नतपयोधरां व्याघ्रचर्मनिवसनां दक्षिणद्वादशभुजेषु खड्ग-वज्र चक्र-रत्नच्छटा-अङ्कुश-शर-शक्ति-मुद्गर-मुसल-कत्रि-डमरु-अक्षमालिकां च, वामद्वादश-भुजेषु धनुः-पाश-तर्जनी-पताका-गदा-त्रिशूल-चषक-उत्पल-घण्टा-परशु-ब्रह्मशिरः कपालं च—
v2.c83.s4.150
सुप्रहृष्टां शवारूढां नागाष्टकविभूषिताम् ।
नवयौवनसम्पन्नां हाहाट्टहासभासुराम् ॥
पिङ्गो ग्रैकजटां ध्यायात् मौलावक्षोभ्यभूषिताम् ।
v2.c83.s4.151
४. पर्णशवरी—भगवतीं पीतवर्णां त्रिमुखां त्रिनेत्रां षड्भुजां प्रथममुखं पीतं दक्षिणं सितं वामं रक्तं ललितहासिनीं सर्व्वालङ्कारधरां पर्णपिच्छिकावसनां नवयौवनोद्धतां पीनां खर्व्व-लम्बोदरीं ललज्जिह्वां दक्षिणभुजैः वज्रपरशुशरधारिणीं वामभुजैः सतर्ज्जनिकापाशपर्ण-पिच्छकाधनुर्धारिणीं पुष्पावबद्धजटामुकुटस्थाक्षोभ्यधारिणीं सूर्य्यप्रभामण्डलिनीम् अधो विघ्नान् निपात्य सितपद्मचन्द्रासने प्रत्यालीढस्थां हृद्द्राममुष्टितर्ज्जन्याधो विघ्नगणान् सन्तर्ज्य दक्षिणवज्रमुष्टिप्रहाराभिनयाम्…भावयेत्…。
v2.c83.s4.152
५. प्रज्ञापारमिता द्विभुजामेकवदनां सितवर्णां मनोरमाम् ।
अर्द्धचर्चरकेशां च श्वेताम्भोरुहसंस्थिताम् ॥
पद्मं दक्षिणहस्ते तु रक्तवर्णं विभावयेत् ।
प्रज्ञापारमितां वामे वज्रपर्यङ्कसंस्थिताम् ॥
सर्व्वालङ्कारसम्पूर्णां भावयेन्नाभिमण्डले ।
अंकारज्ञानसम्भूतां परमानन्दकारिणीम् ॥
v2.c83.s4.153
६. वज्रचर्चिका—वज्रचर्चिकां त्रिनेत्रामेकमुखीमर्द्धपर्यङ्कताण्डवां मृतकासनस्थां कृशाङ्गीं दंष्ट्रोत्कटभैरवां नरशिरोमालाविभूषितकण्ठदेशामस्थ्याभरणभूषितां पञ्चमुद्रा-धारिणीमक्षोभ्यमुकुटिनीं व्याघ्रचर्मनिवसनां मुक्तकेशीं षड्भुजां दक्षिणे वज्रचक्रधारिणीं वामे कपालमणिकमलधरां रक्तवर्णां कर्मानुरूपतः शुक्लादिवर्णंयुक्तां च ।
v2.c83.s4.154
७. महामन्त्रानुसारिणी—महामन्त्रानुसारिणी चतुर्भुजैकमुखी कृष्णा दक्षिणभुजद्वये वज्रवरदवती वामभुजद्वये परशुपाशवती हुंकारबीजा अक्षोभ्यकिरीटिनी सूर्यासनाप्रभा ।
v2.c83.s4.155
८. महाप्रत्यङ्गिरा—महाप्रत्यङ्गिरा कृष्णा षड्भुजैकमुखा खड्गार्डू शूवरददक्षिणहस्ता रक्तपद्मत्रिशूलहृदयस्थसर्पपाशतर्ज्जनीयुक्तवामहस्ता हुँबीजा अक्षोभ्यमुकुटा सर्व्वालङ्कारवती रूपयौवनसम्पन्ना ।
v2.c83.s4.156
९. ध्वजाग्रकेयूरा—ध्वजाग्रकेयूरा कृष्णा त्रिमुखी चतुर्भुजा रक्तश्यामदक्षिणवाममुखी खड्गपाशधारिदक्षिणकरद्वया वज्राङ्कितखट्वाङ्गचक्रवामहस्तद्वया ऊर्ध्वपिङ्गलकेशी शुष्कपञ्चमुण्डालङ्कृतशिरस्का व्याघ्राजिनवसना दंष्ट्राकरालमुखी प्रलम्बोदरी प्रत्यालीढपदा सूर्य्यासनप्रभा पीतवस्त्रकञ्चुकिनी हुँबीजा अक्षोभ्यमुकुटा ।
v2.c83.s4.157
१० वसुधारा—पीतवंकारपरिणतां द्विभुजैकमुखीं पीतां नवयौवनाभरणवस्त्रविभूषितां धान्यमञ्जरीनानारत्नवर्षघटवामहस्तां । दक्षिणेन वरदां अनेकसखीजनपरिवृतां विश्वपद्मचन्द्रासनस्थां रत्नसम्भवमुकुटिनीम् ।
v2.c83.s4.158
११. नैरात्म्या—शवहृच्चन्द्रस्थादर्द्धपर्य्यङ्कनाट्यस्थितां नैरात्म्यां कृष्णामेकमुखीमूर्ध्व-पिङ्गलकेशाम् अक्षोभ्यमुकुटिनीं दंष्ट्राकरालललज्जिह्वां दक्षिणेन कर्त्रिधारिणीं वामे कपालखट्वाङ्गधारिणीं रक्तवर्तुलत्रिनेत्रां पञ्चमुद्राविभूषणां . . . . . ।
v2.c83.s4.159
वैरोचनाविभविषु—देव्व एव
v2.c83.s4.160
१. मारीची
(i) अशोककान्ता
हेमाभां सूकरारूढां तप्तकाञ्चनभास्वराम् ।
लीलयोर्ध्वंस्थितां चन्द्रबिम्बाम्भोरुहसंश्रयाम् ॥
अशोकवृक्षशाखाग्रविलग्नां वामपाणिना ।
बिभ्रतीं वरदाकारदक्षिणकरपल्लवाम् ॥
दीप्तरत्नोपशोभेन मौलिना बुद्धशेखरम् ।
श्वेतवस्त्रां नमस्यामि मारीचीमभयप्रदाम् ॥
v2.c83.s4.161
(ii) आर्य्यमारीची
चिन्तयेत् आर्य्यमारीचीं सूचीसूत्रधरां रूपाम् ।
v2.c83.s4.162
(iii) मारीची पिचुवा
शृङ्गारवीरसद्धर्षैर्जाम्बूनदसमप्रभाम् ।
मध्येन्द्रनीलवर्णास्यां भयवीभत्सरौद्रकैः ॥
करुणाद्भुतशान्तैश्च स्फटिकेन्द्रितराननाम् ।
त्रिविमोक्षमुखैस्त्र्यक्षां धर्म्सम्भोगनिर्मिताम् ॥
पीता (क्ष) भरणसद्वस्त्रां मयूखसुखवासिनीम् ।
सूच्याक्षास्यानि सीवन्तीं बध्नन्तीं मुखचक्षुषी ॥
हृद्गलेऽङ्कुशपाशाभ्यां विन्धन्तीं बाणकार्मुकैः ।
वज्रेण दुष्टहृद्भित्त्वाऽशोकेनासेचनापराम् ॥
विमोक्षाष्टाष्टभिस्तान् दुष्टान् नष्टान् प्रभावयेत् ।
पादविकाशसंकोचादात्मदृष्टिं च तद्गतिम् ॥
प्रज्ञोपायपदाक्रान्तां मारीचीं भावयेद्व्रती ।
v2.c83.s4.163
२ उष्णीषविजया—शुक्लां त्रिमुखां त्रिनेत्रां नवयौवनां नानालङ्कारधरां अष्टभुजां भगवतीं चिन्तयेत्, पीतकृष्णदक्षिणेतरवदनां, दक्षिणचतुर्भुजैः विश्ववज्रपद्मस्थबुद्धबाणवरद-मुद्राधरां, वामचतुर्भुजैः चापतर्ज्जनीपाशाभयहस्तपूर्णकुम्भाः; चैत्यगुहागर्भस्थितां वैरोचनमुकुटिनीं निष्पाद्य स्वबीजं पद्मस्थं हृदि ध्यायात् ।
v2.c83.s4.164
३. सितातपत्रापराजिता—सितातपत्रापराजितां भगवतीं त्रिमुखां षड्भुजां प्रतिमुखं त्रिनयनां शुक्लनीलारुणदक्षिणवाममुखीं चक्राङ्कुशधनुर्धारिदक्षिणकरां सितवज्रशरपाशतर्जनीधरवामकरां सक्रोधदृष्टिकां सर्व्वग्रहविध्वंसिनीं दिव्यालङ्कारवस्त्रवतीं वैरोचननायकां ध्यात्वा मुद्रां बन्धयेत ।
v2.c83.s4.165
४. महासाहस्रमर्दिनी—महासाहस्रप्रमर्द्दनीमात्मानं ध्यायात्; शुक्लामेकमुखीं षड्भुजां दक्षिणत्रिभुजेषु खड्गबाणावरदमुद्राः, वामत्रिभुजेषु धनुःपाशपरशवः, विचित्रालङ्कारधरां रूपयौवनशृङ्गारवतीं वैरोचनकिरीटयुक्तां पद्मचन्द्रासनप्रभाम् ।
v2.c83.s4.166
५. वज्रवाराही—आत्मानं भगवतीं वज्रवाराहीं दाडिमकुसुमप्रख्यां द्विभुजां दक्षिणेन वज्रतर्ज्जनिकाकरां वामेन करोटकखट्वाङ्गधराम् एकाननां त्रिनेत्रां मुक्तकेशां षण्मुद्रा-मुद्रितां दिगम्बरां पञ्चज्ञानात्मिकां सहजानन्दस्वभावां प्रत्यालीढपदाक्रान्त-भैरवकालरात्रिकां सार्द्रमुण्डमालाळङ्कृतगात्रां स्रवद्रुधिरं पिवन्तीं भावयेत् ।
v2.c83.s4.167
अमोघसिद्धचाविभविषु—देव्य एव
v2.c83.s4.168
१. खदिरवनीतारा—हरिताममोघसिद्धिमुकुटीं वरदोत्पलधारिदक्षिणवामकराम् अशोककान्तामारीच्येकजटाव्यग्रदक्षिणवामदिग्भागां दिव्यकुमारीमलङ्कारवतीं ध्यात्वा ।
v2.c83.s4.169
२. वश्यतारा—खदिरवनीवत् ।
v2.c83.s4.170
३. षडभुजसिततारा—सिततारां त्रिमुखां षड्भुजां पीतनीलदक्षिणेतरमुखीं प्रतिमुखं त्रिनेत्रां वरदाक्षसूत्रशरवरदक्षिणत्रिकराम् उत्पलपद्मचापधरवामपाणित्रयाम् अर्द्धपर्य्यङ्क-निषष्णां चन्द्रासनचन्द्रप्रभां जटामुकुटस्थितामोघसिद्धि पञ्चमुण्डविभूषितमस्तकाम् अर्द्धचन्द्र-कृतशेखरां नानालङ्कारधरां द्विरष्टवर्षाकृतिमष्टश्मशानमध्यस्थितां ……… ।
v2.c83.s4.171
४. धनदतारा—ताराभगवतीमात्मानं भावयेत् चन्द्रासनप्रभां सौम्यां सत्त्वपर्य्यङ्कस्थां हरितश्यामामेकवदनां द्विलोचनां चतुर्भुजामक्षसूत्रवरदोत्पलपुस्तकधरां विचित्रवस्त्रालङ्कार-वतीम्………लोचनादिभिर्देवीभिरभिषिक्तामात्मानमोघसिद्धिमुकुटं ध्यायात् ।
v2.c83.s4.172
५. पर्णशवरी—पर्णशवरीं हरितां त्रिमुखां त्रिनेत्रां षड्भुजां कृष्णशुक्लदक्षिणवामाननां वज्रपरशुशरदक्षिणकरत्रयां कार्मुकपत्रच्छटासपाशतर्ज्जनीवामकरत्रयां सक्रोधहसिताननां नवयौवनवतीं सप्तपञ्ञमालां व्याघ्रचर्म्मनिवसनामीषल्लम्बोदरीमूर्ध्वसंयतकेशीमधोऽशेषरोग-मारिपदाक्रान्ताममोघसिद्धिमुकुटीमात्मानं झटिति निष्पाद्य……।
v2.c83.s4.173
६. महामायूरी—महामायूरीं हरितवर्णां त्रिमुखां षड्भुजां प्रतिमुखं त्रिनेत्रां कृष्णशुक्ल-दक्षिणेतरवदनां; दक्षिणत्रिहस्तेषु यथाक्रमं मयूरपिच्छबाणावरदमुद्राः; तथा वामत्रिहस्तेषु रत्नच्छटाचापोत्सङ्गरथकलशाः; विचित्राभरणां शृङ्गाररसां ननयौवनीं चन्द्रासने चन्द्रप्रभा-वतीमर्द्धपर्य्यङ्किनीममोघसिद्धिमुकुटीं भावयेदात्मानम् ।
v2.c83.s4.174
७. वज्रशृङ्खला—हरितां त्रिमुखाम् अष्टभुजां प्रथममुखमीषद्व्रासरसं, दक्षिणं कपिलं कपिललोचनं च; वामं रक्तं भृकुटीदंष्ट्राकरालं ; दक्षिणेषु चतुः करेषु अभयवज्रशृङ्खलशर-धरां वामचतुःकरैः रुधिरपूर्णकपालतर्ज्जनीपाशचापधरां, ललिताक्षेपासनस्थां मार्ज्जारच-र्म्मोत्तरीयाममोघसिद्धिभूषितोध्वंपिङ्गलकेशां विचिन्त्य ।
v2.c83.s4.175
रत्नसम्भवाविभविषु
v2.c83.s4.176
देवौ—जम्भालः उच्छूष्मजम्भलश्च । देवीषु च—
v2.c83.s4.177
१. महाप्रतिसरा—प्रतिसरां सुपीतां रत्नमुकुटिनीं पीतशुक्लपीतरक्तचतुम्मु खीं त्रिनेत्रा-मष्टभुजां दक्षिणभुजैः खड्गचक्रत्रिशूलशरधारिणीं वामभुजैः पाशपरशुचापवज्रधारिणीं पद्मचन्द्रासने ललिताक्षेपस्थितां नानारत्नाभरणविभूषितां विभाव्य ।
v2.c83.s4.178
२. वसुधारा—पीत-वं-कारपरिणतां द्विभुजैकमुखीं पीतां नवयौवनाभरणवस्त्रभूषितां धान्य-मञ्जरीनानारत्नवर्षघटवामहस्तां दक्षिणेन वरदाम् अनेकसखीजनपरिवृतां विश्वपद्मचन्द्रा-सनस्थां रत्नसम्भवमुकुटिनीं...।
v2.c83.s4.179
पञ्चध्यानिबुद्धाविभविषु देवौ देव्यश्च—
v2.c83.s4.180
१. जम्भालः पूर्ववत् ।
v2.c83.s4.181
२. अ. महाकाल—श्रीमहाकालभट्टारकं द्विभुजमेकमुखं कृष्णवर्णं त्रिनयनं महाज्वालं कतृ-कपालधारिदक्षिणवामभुजं मुण्डमाला लङ्कृतोर्ध्वपिङ्गलकेशोपरि पञ्चकपालधरं दंष्ट्रा-भीममयानकं भुजङ्गाभरणयज्ञोपवीतं खर्वरूपं स्रवद्रुधिरमुखमात्मानं झटिति निष्पाद्य ।
v2.c83.s4.182
ब. षोडशभुजमहाकालः—आत्मानं भगवन्तं षोडशभुजमहाकालं भावयेत् अष्टवदनं चतुर्विंशतिनेत्रं चतुश्चरणं षोडशभुजं दक्षिणकरैर्कर्त्रिवज्रगजचर्ममुद्गरत्रिशूलखड्गयम-दण्डं वामकरैः रक्तपूर्णकपालगजचर्म्मघण्टाऽङ्कुशश्वेतचामरडमरूनरशिरो दधानं शेष-भुजाभ्यां प्रज्ञालिङ्गितं खर्व्वं कृष्णं हाहा-हीही-हेहे-होहो-पूरितमुखं महारौद्रं त्रिकायात्मकँ पञ्चबुद्धमुकुटिनं नरमण्डमालाभरणं भवभयङ्करम् ।
v2.c83.s4.183
१. वज्रतारा मातृमण्डलमध्यस्थां तारादेवीं विभावयेत् ।
अष्टबाहुं चतुर्वक्त्रां सर्व्वाङ्कारविभूषिताम् ॥
कनकवर्णनिभां भव्यां कुमारीलक्षणोज्वलाम् ।
पञ्चबुद्धमहमुकुटीं वज्रसूर्याभिषेकजाम् ॥
नवयौवमलाषण्यां चलत्कनककुण्डलाम् ।
विश्वपद्मसमासीनां रक्तप्रभाविभूषताम् ॥
वज्रपाशतथाशङ्खसच्छ्रोद्यतदक्षिणाम् ।
वज्राऽङ्कुशोत्पलधनुस्तर्जनीवामधारिणीम् ॥
वज्रपर्य्यङ्कयोगेन साधयेद् भुवनत्रयम् ।
पूर्व्वेण पुष्पंतारां तु सितवर्णां मनोरमाम् ॥
ॐकाराक्षरनिष्पन्नां पुष्पदामकराकुलाम् ।
द्विभुजामेकवक्त्रां च सर्व्वालङ्कारभूषिताम् ॥
दक्षिणे धूपतारां तु कृष्णवर्णां सुरूषिणीम् ।
धूपशाखाकरव्यग्रां सर्व्वालङ्कारभूषिताम् ॥
पश्चिमे दीपतारां च दीपयष्टिकराकुलाम् ॥
पीतवर्णां महाभूषां चलत्कनककुण्डलाम् ।
v2.c83.s4.184
उत्तरे गन्धतारां तु गन्धशङ्खकराकुलाम् ॥
रक्तवर्णनिभां देवीं भावयेद गर्भमण्डले ।
द्वारपालीस्ततो ध्यायादङ्कुश्यादि प्रभेदतः ॥
v2.c83.s4.185
पूर्व्वद्वारे वज्राङ्कुशीमेकवक्त्रां द्विभुजां वज्राङ्कुशोत्पलहस्तां विकृतवदनां कृष्णवर्णां, दक्षिणद्वारे वज्रपाशीं पीतवर्णां विकृताननमेकवक्त्रां द्विभुजां वज्रपाशहस्तां, पश्चिमद्वारे वज्रस्फोटों रक्तवर्णाम् एकवक्त्रां द्विभुजां विकृतवदनां वज्रस्फोटहस्तां, उत्तरद्वारे वज्रघण्टां श्वेतवर्णाम् एकवक्त्रां द्विभुजां विकृतवदनां वज्रघण्टाहस्ताम् ।
v2.c83.s4.186
२ प्रज्ञापारमिता पूर्ववत् ३. मायाजालक्रमकुरुकुल्ला कुरुकुल्लावत्
v2.c83.s4.187
४. सिततारा—ताराभगवतीं शुक्लां त्रिनेत्रां चतुर्भुजां पञ्चतथागतमुकुटीं नानालङ्कारां भुजद्वयेनोत्पलमुद्रां दधानां दक्षिणभुजेन चिन्तामणिरत्नसंयुक्तवरदां सर्व्वसत्त्वानामाशां परिपूरयन्तीं वामेनोत्पलमञ्जरीं बिभ्राणां ध्यायात् । तस्या दक्षिणपार्श्वे मारीचीं पीतां चन्द्रासनां नीलाम्बरां द्विभुजां वामेन रक्ताशोकपल्लवधरां दक्षिणेन सितचामरधरां रक्तकञ्चुकाभरणां, वामपार्श्वे महामायूरीं प्रियङ्गश्यामां द्विभुजां वामेन च मयूरपिच्छधरां दक्षिणेन चामरधराम् एवं विचिन्त्य ।
v2.c83.s4.188
चतुर्ध्यानिवुद्धाविभोवेषु—वज्रतारै कमात्रम्
v2.c83.s4.189
वज्रसत्वाविर्भावयोश्च—१. जम्भालः
v2.c83.s4.190
२. चुन्दा च—आर्य्यचुन्दां शरच्चन्द्राभामेकमुखां चतुर्भुजां वरदक्षिणभुजां पुस्तकाङ्कितपद्मवामभुजां पात्रधारिशेषभुजद्वयां नानाभरणविभूषितां वज्रसत्त्वमुकुटाम् ।
v2.c83.s4.191
पञ्चरक्षामण्डलीयासु देवतासु
v2.c83.s4.192
१. महाप्रतिसरा २. महासाहस्रप्रमर्दिनी ३. महामन्त्रानुसारिणी ४. महामायूरी ५. महसितवतीति देवीनामेव परिगणनम् लक्षणं पूर्ववत् ।
v2.c83.s4.193
ताराः
v2.c83.s4.194
सामान्याः—हरिताः, शुक्लाश्च । विशेषाश्च—हरिता, शुक्ला, पीता, नीला, रक्ता चेति तत्र पीता यथा—
v2.c83.s4.195
हेमवर्णां महाघोरां तारादेवीं महर्द्धिकां त्रिनेत्राम् अष्टवदनां भुजषोडशभूषितामूर्ध्वपिङ्गलकेशां सार्द्रशताद्धर्मुण्डमालाकृतहारां जगत्राणां महाबलां प्रत्यालीढपदोपेतां हसन्तीं नवयौवनां विचित्रवस्त्रनेपथ्यां प्रधानमुखं पीतं, दक्षिणं द्वितीयं नीलं, तृतीयं श्यामं, चतुर्थं गगनश्यामं, वामं कुन्दसन्निभं, द्वितीयं रक्तं, तृतीयं गगनश्यामं, ऊर्ध्वास्यं धूम्रवर्णाभं महाघोरं विकटोत्कटं; दक्षिणकरेषु खट्वाङ्ग-उत्पल-शर-वज्र-अङ्कुश-कर्त्रि-दण्ड-अभय-धरां, वामभुजेषु सपाशतर्जनीकपालधनुःखट्वाङ्गवज्रपाशब्रह्मशिरःरत्नकलशधरां विश्वपद्मचन्द्रस्थां सूर्यप्रभा-विभूषितां, वामपादेन इन्द्रं, दक्षिणपादेन उपेन्द्रं, पादद्वयमध्ये रुद्रं ब्रह्माणं च आक्रम्य स्थितां सर्वमारविनाशिनीं भाववयेत् योगी ।
v2.c83.s4.196
स्वतन्त्रदेवताः
v2.c83.s4.197
१. गणपतिः—भगवन्तं गणपतिं रक्तवर्णं जटामुकुटकिरीटिनं सर्व्वाभरणभूषितं
v2.c83.s4.198
द्वादशभुजं लम्बोदरैकवदनम् अर्धपर्यङ्कत्ताण्डवं त्रिनेत्रमप्येकदन्तं, सव्यभुजेषु कुठार-शर-अङ्कुश-वज्र-खड्ग-शूलं च वामभुजेषु मूषल-चाप-खट्वाङ्ग-असृक्कपाल-शुष्कमांसकपाल-फट्कं च रक्तपद्मे मूषिकोपरिस्थितमिति ।
v2.c83.s4.199
२. विघ्नान्तकः—आत्मानं प्रत्यालीढपदस्थितम् एकमुखं द्विभुजं नीलवर्णं वामकारेण तर्ज्जनिकापाशं दक्षिणकरेणोद्यतवज्रं भयानकं पिङ्ग्लोर्ध्वकेशम्………………………विश्वदलकमलोपरि सूर्य्यस्थं भावयेत् ।
v2.c83.s4.200
३. वज्रहुँकारः खधातुरेफजे सूर्य्ये हुँकारज्वलद्भास्वरम् ।
First 200 of 218 passages. Read on
Cites (1)
- Sādhanamālā — Sanskrit