Pramāṇa · Search · About · API

The Dynasties of the Kanarese Districts of the Bombay Presidency from the Earliest Historical Times to the Musalman Conquest c8.s10.21

The Dynasties of the Kanarese Districts of the Bombay Presidency from the Earliest Historical Times to the Musalman Conquest c8.s10.21

Language
English

c8.s10.21

बभूव प्रद्युम्नः किल कुसुमधन्वा मधुरिपो-
स्त्रिलोकीवीरोसौ तनयमनिरुद्धं प्रसुषुवे ।
ततो भूतपक्षक्षपणनिपुणैिव महसा
परिस्फूर्जन्वज्रः शतमखसखः प्रादुरभवत् ॥ १७ ॥
वज्रस्य सूनुः प्रतिबाहुरासीदासीकृतक्षमापतिचक्रवालः ।
ततोपि सम्राडभवत्सुबाहुः प्रासूत सोयं चतुरस्त्रंतनूजान् ॥ १८ ॥
तेन ते सार्वभौमेन तनया विनयान्विताः ।
विभज्य वसुधाचक्रं चक्रिरे पृथिवीश्वराः ॥ १९ ॥
यथाविभागं वसुधामशेषां तेषां तदा पालयतां चतुर्णां ।
दृढप्रहारी दिशि दक्षिणस्यां प्रभुर्वभूव प्रथमात्कनीयान् ॥ २० ॥
सर्वेपि पूर्वे मथुराधिनाथाः कृष्णादितो द्वारवतीश्वरास्ते ।
सुबाहुपोनोरथ दक्षिणशाप्रशासिनो यादववंशवीराः ॥ २१ ॥
ततः स राजा निजराजधानीमधिविष्टः श्रीनगरं गरीयः ।
लेभे सुतं सेउणचन्द्रसंज्ञं यत्संज्ञया सेउणदेशमाहुः ॥ २२ ॥
अथ धाडियसो महीपतितनयस्तस्य बभूव भिल्लमः ।
अजनिष्ट ततोपि राजेगिस्तदतु प्रादुरभूत्स बाहुगिः ॥ २३ ॥
जज्ञे धाडियमस्ततः प्रतिभटक्षमापालकालानल-
स्तस्मादाविरभूदभूतविभवो भर्ता युवो भिल्लमः ।
एतस्मान्महसा महानिधिसौ श्रीवेसुगिर्ज्ञिान्
हन्ता भीष्ममुंजोजसामसुहृदां तस्मादभूदर्जुनः ॥ २४ ॥
अजस्त्रमाविष्कृतदानवारिः प्रभूतहस्तार्चितदानवारिः ।
ततः स राजा विरराज राजश्रियौ विलासैजितराजराजः ॥ २५ ॥
आसीदिलासी नृपतेरमुष्मात्स भिल्लमः पञ्चवितोरुकीर्तिः ।
स बाहुगिः स्वादुगिरां कवीनां स्तोत्रैकपात्रं भवति स्म तस्मात् ॥ २६ ॥
ततो मही महीपालः पालयामास वसुभिः ।
संहतमोद्यदहामधामसामन्तसंततिः ॥ २७ ॥
ततोपि नृपभिल्लमः समरसीमभीमक्रिया-
निरर्गलभुजार्गलायुगलकालीलालयः ।