Pramāṇa · Search · About · API

Ancient Indian Colonies in the Far East (Vol. I: Champa; Vol. II: Suvarnadvipa) v1.c9.s64.8

Ancient Indian Colonies in the Far East (Vol. I: Champā; Vol. II: Suvarṇadvīpa) v1.c9.s64.8

Language
English

v1.c9.s64.8

II. चिय् शिवानन्दनो नाम ब्रह्मलोकस्य भूभृतः। नै-जिज्यं-व्या-भजस्सून्ुरासीद्राजा ˘—स्वरः॥ III. विद्यामतिक्रियारूपवाक्वित्तैर्गुणेषु यः। महतां भूभृतामादिस्ततिपतेव महीधरः॥ IV. जातो यदन्तः क्षितिभृत्समूहः स्वांशैरुरोजाहिरहो यथेच्छं। श्रान्तीच्छय'जोऽनुददौ स्ववीर्य्यं। तेभ्यश्चतुर्भ्यः क्षितिपालनाय॥ V. कीर्त्तिः परस्थानगतिस्वभावा विद्या च वाग्भिर्वहुभिर्दुताभिः। ते वल्लभे यस्य भुवोचलाया अपक्षपातस्य कुतोप्यधीरे॥ VI. एतावता यस्य व[चो]नुमेयं सौन्दर्यमेकान्तशुभं प्रकर्षैः। तद्रूपभृत्यैव सदोपमानं यूनस्तसरूपस्य स यद् न कामः॥ VII. कीर्त्तिः प्रिया यस्य महाप्रवीणा- धीरा परस्थानगताधिकांद्या। परैर्मयाद्वा यशसोतिभीमाद् गताच्च शक्या न तयैव लब्धुम्॥ VIII. कान्त्या कजारेरजितस्य जेत्री यत्कीर्त्तिरिद्धा यदुराजकीर्त्तिम्। रामस्य कीर्त्तिश्च पुनर्जिगीषु दिक्षु स्थितेऽनु प्रतिदिक् प्रयाता॥ IX. येनासिना वैरिराजवृन्दं भिन्नं नभोव्याप्तमगान् महाजौ। आसस्य हेमाश्रियमुत्सरूपां इन्दोरिवारिर्बहुभिन्नमूर्द्धा॥