Geographical and Economic Studies in the Mahabharata: Upayana Parva c7: Appendix I: Sanskrit Text
Geographical and Economic Studies in the Mahābhārata: Upāyana Parva c7
- Language
- English
Contents
- c7.s1 Sabhāparva. 45-24 — 1 part
- c7.s2 Sabhāparva. 46-21 — 1 part
- c7.s3 Sabhāparva. 45, 19-20 — 12 parts
- c7.s4 Chapter 48 — 12 parts
Appendix I: Sanskrit Text
Sabhāparva. 45-24
c7.s1.1
ब्राह्मणा वाटधानाश्च गोमन्तः शतसंघशः ।
त्रैखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥
Sabhāparva. 46-21
c7.s2.1
आवर्जिता इवाभान्ति निघ्नाश्चैत्रकिकौकुराः ।
कारस्करा लोहजङ्घा युधिष्ठिरनिवेशने ॥
Sabhāparva. 45, 19-20
c7.s3.1
कदलीमृगमोकानि कृष्णश्यामारुणानि च
काम्बोजः प्राहिणोत्तस्मै परार्ध्यानिप कम्बलान् ॥१॥
रथयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः
त्रिंशतं चोष्ट्रवामीनां शतानि विचरन्त्युत ॥२॥
c7.s3.3
यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत
आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः ॥१॥
न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम्
फलतो भूमितो वापि प्रतिपद्यस्व भारत ॥२॥
ऐडांश्चैलान्³⁵⁹ वार्दशाञ्जातरूपपरिष्कृतान्
प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ वसु ॥३॥
अश्वांस्तित्तिरकल्माषांस्त्रिशतं शुकनासिकान्
उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीऽगुदैः ॥४॥
गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशः
प्रीत्यर्थं ते महाभाग धर्मराजो महात्मनः
त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥५॥
c7.s3.4
³⁵⁹ Variants : K₁ एडान्, प्लान् K. 2.3; Ś₁, N₁ V₁ B₁.2 Dn, Dn 206 cd. n. बैलान्
c7.s3.5
एवं बलिं प्रदायाथ प्रवेशं लेभिरे ततः ॥६॥
शतं दासी सहस्राणां वार्षासेकनिवासिनाम्
c7.s3.6
श्यामास्तन्वो दीर्घकेश्यो हेमाभरणभूषिताः शूद्रा विप्रोत्तमार्हणि राष्ट्रवान्यजिनानि च ॥७७॥ बलिं च कृत्स्नमादाय भरुकच्छनिवासिनः उपनिन्युर्महाराज हयान्कान्तारदेशजान् ॥७८॥ इन्द्रप्रस्थवसन्ति धान्यैर्नदीमुखैश्च ये समुद्रनिकुटे जाताः पिसिन्धु च मानवाः ॥७९॥ ते वैरामाः पारदाश्च³⁶⁰ कितवैः सह विविधं बलिमादाय रत्नानि विविधानि च ॥८०॥ अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः ॥८१॥ प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपोबली यवनैः सहितो राजा भगदत्तो महारथः ॥८२॥ आजानेयान्हयान्काशीनादायानीलवर्चसः बलिं च कृत्स्नमादाय द्वारे तिष्ठति वारितः ॥८३॥ अश्मसारमयं भाण्डं शुद्धदन्तसमन्वितम् प्राग्ज्योतिषोऽथ तद्द्रव्यमादत्तौघजदा ॥८४॥ ह्यक्षास्त्यक्षाल्ललाटाक्षास्त्रिजातादिग्भ्य आगतान् और्णिकाननिवासांश्च बाहुकान्³⁶¹ पुरुषदारकान् ॥८५॥ एकपादांश्च तत्रासन्नथ द्वारि वारितान् बल्यर्थं ददतस्तस्मै हिरण्यं रजतं बहु ॥८६॥ इन्द्रगोपकवर्णांश्च शुकवर्णान्म नोज्ञान् तथैवेन्द्रायुधानिमान्सर्वान्असदृशानपि ॥८७॥ अनेकरूपानारण्यान्हित्वाश्वान्म नोज्ञान् जातरूपमर्घ्यं च ददतस्तथैकपादकाः ॥८८॥ वोनान्मृगांश्च कालोद्वाञ्पर्वतान्तरवासिनः वार्ष्णेयान्हारहूँांश्च³⁶² कृष्णहेमवनांस्तथा ॥८९॥ न पार्याम्बधिगनान्विविधान्द्वारि वारितान् बल्यर्थं ददतस्तस्य नानारूपाननेकशः ॥९०॥ कृष्णग्रीवान्महाकायान्ग्रामवास्यतपातिनः ग्राहपृष्ठदसाहस्रान्विनीतान्सिन्धुविश्रुतान् ॥९१॥ प्रमाणरागस्पर्शाढ्यं बाह्लीचीनसमुद्भवम् और्णं च राष्ट्रयं चैव कीटजं पट्टजं तथा ॥९२॥ कुटीकृतं³⁶³ तथैवान्यत्कमलाभं सहस्रशः श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम् ॥९३॥
c7.s3.7
³⁶⁰ D⁶ आभीरा: B 1.4-5 D₁. 5 तुञ्जाश्च
c7.s3.8
³⁶¹ N₁ B₄ DN (!) D⁶ रोमकान
c7.s3.9
³⁶² Ś₁ हारनाश्व; K₁ हार (m°रां) हूर्राश्व..
c7.s3.10
³⁶³ कुटीकृतं
c7.s3.11
निशितांश्चैव दीर्घासीन्मुष्टिष्वपि परश्वधान् अपरान्तसमुद्भूतांस्तथैव परशून्शतान् ॥२४॥ रसनान्यांश्च विविधान्रत्नानि च सहस्रशः बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥२५॥ शकास्तुषाराः³⁶⁴ कङ्काश्च³⁶⁵ रोमशाः शृङ्गिणो नराः महामन्दूरमागार्णानातुर्बदं हयान ॥२६॥ कोटिशश्चैव बहुशः सुवर्णं पद्मसंमितम् बलिमादाय विविधं द्वारि तिष्ठन्ति वारिताः ॥२७॥ आसनानि महार्हाणि यानानि शयनानि च माणिकाञ्चनचित्राणि गजदन्तमयानि च ॥२८॥ रथांश्च विविधाकाराञ्जातरूपपरिष्कृतान् हयैर्विनीतैः संपन्नैस्तथापरिवारणान् ॥२९॥ विचित्रांश्च परिस्तोमान्रत्नानि च सहस्रशः नाराचांश्चधंनारांश्चास्त्राणि विविधानि च ॥३०॥ एतद्दत्वा महद्रव्यं पूर्वदेशाधिपो नृप. प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः ॥३१॥
c7.s3.12
³⁶⁴ तुषाराः;; S₁ तुखाताः; N₁ तुकाराः;
c7.s3.13
³⁶⁵ J₁ G₁. 3-6 M कौरव्य (G₄ कौमारा) for कङ्काश्च
Chapter 48
c7.s4.1
दायं तु तस्मै विविधं शृणु मे गदतोऽनघ यज्ञार्थं राजभिर्दत्तं महान्तं धनसञ्चयम् ॥१॥ मेरुमन्दरयोर्मध्ये शैलौदाभितो नदीम् ये ते कीचकवेणूनां छायां रम्यामुपासते ॥२॥ खशा³⁶⁶ एकाशना ज्योहाः प्रदेरा दीर्घवेणवः पशुपाश्च कुणिन्दाश्च तङ्कणाः परतङ्गणाः ॥३॥ ते वै पिपीलिकं नाम वरदत्तं³⁶⁷ पिपीलिकैः जातरूपं द्रोणमेयमहार्हः पुञ्जशो नृपाः ॥४॥ कृष्णालल्ललामांशचमराञ्शुक्लांश्चान्याञ्शशिप्रभान् हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु³⁶⁸ ॥५॥ उत्तरेभ्यः कुरुभ्यश्चाप्योढं माल्यमंबुभिः उत्तरार्दपिकैलासादोषधीः सुमहाबलाः ॥६॥ पर्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः अजातशत्रो नृपतेर्द्वारि तिष्ठन्ति वारिताः ॥७॥
c7.s4.2
³⁶⁶ N₁ V₁ B 2-6 D खसा [B₃, 5.6 Dn 2, D 3-5, खशा]. (2) ए (B₁य) कास (B 3-5-6 m D 2-5 ⁰य) ना ह्यर्हा | D 3-5 ह्योहाः; D⁶ न्योहाः (3) पारदा K Dn D₆ for पशुपा. (4) N₁ V₁ BD except D₆कुलिन्दाश्च).
c7.s4.3
³⁶⁷ Dn (!) D₆ उद्धृतं यत.
c7.s4.4
³⁶⁸ J₁, G 3-6 मधु
c7.s4.5
ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः वारिषेणसगद्रान्ते³⁶⁹ लोहित्यमभितश्च ये फलमूलाशना ये च किराताश्चर्मवाससः।।८।। चन्दनागुरुकाष्ठानां भारान्कालीयकस्य च चर्मरत्नसुवर्णानां गन्धानां चैव राशयः।।९।। कैरातिकानाममृतं दासीनां च विशाम्पते आहृत्य रमणीयार्थन्दूरजान्मृगपक्षिणः।।१०।। निश्चितं पर्वतभ्यश्च हिरण्यं भूरिवर्चसम् बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः।।११।। कायव्या³⁷⁰ दरदा दार्वाः शूरा वैयमकास्तथा औदुम्बरा³⁷¹ दुर्विलागाः पारदा बाह्लिकैः सह।।१२।। काश्मीराः कुन्दमानाश्च³⁷² पौरका³⁷³ हंसकायनाः शिवित्रिगर्तयोधेया राजन्य मद्रकेक्याः।।१३।। अम्बष्ठाः कौकुरास्तार्था वस्त्रपाः पल्लवैः सह वसातायः समौलेयाः सहक्षद्रकमलवैः।।१४।। शौण्डिकाः³⁷⁴ कुक्कुराश्चैव शकाश्चैव विशाम्पते अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा।।१५।। सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः आहर्युः क्षत्रिया वित्तं शतशोऽजातशत्रवे।।१६।। वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपण्ड्रकाः दुकूलं कौशिकं चैव पत्रोर्णं प्रावरानपि।।१७।। तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात् कृतकाराः सुबलयत्ततो द्वारमास्थय।।१८।। ईशादन्तान्हेमकक्षान्स्वर्णकुथावृतान् शैलाभान्विमतांश्च अभितः काम्यकं सरः।।१९।। दत्तवैकैको दशशातान्कुञ्जरान्वचावृतान क्षमावतः कुलीनाश्च द्वारेण प्राविश स्ततः।।२०।। एते चान्ये च बहवो गणा दिग्भ्यः समागताः अन्येचोपाहृतान्यत्र रत्नानीह महात्मभिः।।२१।। राजा चित्ररथो नाम गन्धर्वो वास्वानुगः शतानि चत्वार्यददद्यानां वातरंहसां।।२२।।
c7.s4.6
³⁶⁹ N₁ V₁ B 2-6 Dn D 3-5 कारूषे (Dn 2 D3. रु)
c7.s4.7
³⁷⁰ K 1-3 कांबोजा ; K₄ N₁ V₁ BD 1-5 ऋव्यादा Dn (!) कैराताः; M₂ कावरव्याः
c7.s4.8
³⁷¹ B 1-4 औडुं (B 2 ंड) बरा; D₁ कुडंबरा
c7.s4.9
³⁷² K⁴ Dn (!) D⁶ चकुमाराश्च
c7.s4.10
³⁷³ K⁴ N₁, V₁ Dn, D⁶ पोरका instead of पौरका
c7.s4.11
³⁷⁴ K₂ सोंडिकाः; K⁴ Dn (!) D⁶ पौंडिकाः
c7.s4.12
तुम्बुरुस्तु प्रमुदितो गंधर्वो वाजिनां शतं
आम्रपत्रसवर्णानमदद्धेममालिनम्॥२३॥
कृती च राजा कौरव्य शुकराणां विशांपते
अददद्गजरत्नानां शतानि सुबहून्यपि॥२४॥
पांशुराष्ट्राद्रुदानो राजा षड्विंशतिं गजान्
अश्वानां च सहस्रे द्वे राजनकाञ्चनमालिनम्॥२५॥
जवसत्त्वोपपन्नानां वयःस्थानां नराधिप
बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत्॥२६॥
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश
दासानामयुतं चैव सदाराणां विशांपते॥२७॥
गजयुक्ता महाराज रथाः षड्विंशतिस्तथा
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थ वै निवेदितम्॥२८॥
समुद्रसारं वैडूर्य मुक्ताः शङ्खास्तथैव च
शतशश्च कृथास्तत्र सिहलाः समुपा हरन्॥२९॥
मणिवैदूर्यरत्नानि श्यामास्ताम्रान्तलोचनाः
तानुहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः॥३०॥
Linked texts (1)
- Mahābhārata — Vyāsa, Sanskrit