Studies in the Geography of Ancient and Medieval India c8.s2: Supplement
Studies in the Geography of Ancient and Medieval India c8.s2
- Language
- English
Supplement
c8.s2.1
⁴ From B only.
c8.s2.2
( *Śaktisaṅgama Tantra*, Book III, Chapter VIII )
c8.s2.3
श्रीदेव्युवाच ।
c8.s2.4
देवेश श्रोतुमिच्छामि पंच प्रस्थान⁵ साम्प्रतम् । इन्द्रप्रस्थं यमप्रस्थं वरुणप्रस्थमेव च । कूर्मप्रस्थं महादेव देवप्रस्थं च पञ्चमम् ॥१ ⁶इन्द्रप्रस्थं महेशानि शृणु वक्षे⁷ यथाक्रमम् । इन्द्रप्रस्थं महेशानि योगिनीसंयुतम्⁸ ॥२ मथुरागोकुलं पूर्व⁹ भागे तस्य व्यवस्थितम् । वृन्दावनं कोलदेशे हस्तिनापुरमुत्तरे ॥३
c8.s2.5
⁵ Read प्रस्थानि.
c8.s2.6
⁶ Read श्रीभगवानुवाच before this stanza. Better read पंच : स्थानि देवेशि in place of इन्द्रप्रस्थं महेशानि.
c8.s2.7
⁷ Read वक्ष्ये.
c8.s2.8
⁸ Read योगिनीपुरसंयुतम्.
c8.s2.9
⁹ Read पूर्वे.
c8.s2.10
षट्पंचाशन्निमिता देशा मया प्रोक्ता तवानघे ।
तेषां शास्ता भवेद्यो वै चक्रवर्त्ती स उच्यते ॥
c8.s2.11
द्वारका पश्चिमायां च गदावर्त्तस्तु दक्षिणे । इन्द्रप्रस्थं मध्यभागे कालिकामुखगोचरम् ॥४ द्रावाही¹क्षेत्रमुद्दिष्टमिन्द्रप्रस्थं तदुच्यते । सिंहासनं चाश्वपतस्तदेव परिकीर्त्तितम् ॥५ यमप्रस्थं महेशानि दक्षिणस्यां व्यवस्थितम् । सोमेश्वरः पश्चिमायां सप्तश्रृंगात्तु पूर्वगाः² ॥६ मायापुरं वामभागे व्यंकटेशस्तु दक्षिणे । यमप्रस्थं भवेन्मध्ये कमलामुखगोचरम् ॥७ शंखावर्त्तो भवेत्तत्र क्षेत्रं मायाभिधं भवेत् । सिंहासनं नरपतस्तक्षे परिकीर्त्तितः³ ॥८ ततः पूर्वं जगन्नाथः प्रान्ते कविपति भवेत्⁴ । वारुणारव्यं तथा देवि कथ्यते श्रृणु साम्प्रतम् ॥९ मक्केश्वर⁵ पश्चिमायामुत्तरे हिंगुला भवेत् । त्रैलोक्यविजया देवि दक्षभागे प्रकीर्त्तिता ॥१० राजावर्त्तस्तत्र भवेत्तत्र शीतामुखं च तत् । तदन्ते सागराः सप्त समुद्राश्च तदन्तके ॥११ तावत् श्रीवारुणारयन्तु⁶ प्रस्थं प्रोक्तं मया तव । कूर्मप्रस्थं महेशानि कथ्यते श्रृणु साम्प्रतम् ॥१२ गोकर्णेश⁷ दक्षभागे कामाख्या पूर्वगोचरः⁸ । उत्तरे मानसेशः स्यात् पश्चिमे सारदा भवेत् ॥१३ त्रिगुणा वर्त्तते तद्धि⁹ वज्रेस्यामुखमीरितम्¹⁰ ।
c8.s2.12
1. The intended reading may be वाराही°.
2. Possibly we have to suggest सप्तश्रृगन्तु पूर्वके.
3. Read °कीर्त्तितम्.
4. Read °पतिर्भवेत्. *Kavi-pati* may be an error for *kari-pati*, i.e. *gaja-pati*.
5. Read °श्वरः.
6. Read तावच्छ्री°. But the rules of *sandhi* and metre are often disregarded.
7. Read गोकर्णेशो.
8. Read °गोचरा.
9. Possibly त्रिगुणावर्त्तस्तत्र हि.
10. Possibly वज्रेशी°.
c8.s2.13
षट्पंचाछघाटि चामुंडागणैर्व्याप्तित्तु¹ तद्भवत् ॥१४ पूर्वे वैरजनाथस्तूत्तरेऽमरकण्टकम्² । कांचीपुरं मध्यभागे मोहनावर्त्त मे(ए)व च ॥१५ ललिताया मुखं तच्च विद्यागणविभूषितम् । कामाख्यात्र समुद्दिष्टं महामन्त्रविभूषितम् ॥१६ नवलक्षमहाविद्या सगणे परिभूषितः³ । पंच प्रस्थानि देवेशि कथितानि मया तव ॥१७
c8.s2.14
¹ Possibly षट्पंचाशद्वश्चामुंडागणैर्व्याप्तित्तु.
c8.s2.15
² Possibly पूर्वे वैरजनाथस्तु उत्तरे or पूर्वे वै चन्द्रनाथस्तु उत्तरे.
c8.s2.16
³ Possibly महाविद्याः स्वगणैः परिभूषिताः.
Linked texts (2)
- Śaktisaṅgamatantra — Sanskrit
- Hastināpura