Studies in the Geography of Ancient and Medieval India c8.s2.11
Studies in the Geography of Ancient and Medieval India c8.s2.11
- Language
- English
c8.s2.11
द्वारका पश्चिमायां च गदावर्त्तस्तु दक्षिणे । इन्द्रप्रस्थं मध्यभागे कालिकामुखगोचरम् ॥४ द्रावाही¹क्षेत्रमुद्दिष्टमिन्द्रप्रस्थं तदुच्यते । सिंहासनं चाश्वपतस्तदेव परिकीर्त्तितम् ॥५ यमप्रस्थं महेशानि दक्षिणस्यां व्यवस्थितम् । सोमेश्वरः पश्चिमायां सप्तश्रृंगात्तु पूर्वगाः² ॥६ मायापुरं वामभागे व्यंकटेशस्तु दक्षिणे । यमप्रस्थं भवेन्मध्ये कमलामुखगोचरम् ॥७ शंखावर्त्तो भवेत्तत्र क्षेत्रं मायाभिधं भवेत् । सिंहासनं नरपतस्तक्षे परिकीर्त्तितः³ ॥८ ततः पूर्वं जगन्नाथः प्रान्ते कविपति भवेत्⁴ । वारुणारव्यं तथा देवि कथ्यते श्रृणु साम्प्रतम् ॥९ मक्केश्वर⁵ पश्चिमायामुत्तरे हिंगुला भवेत् । त्रैलोक्यविजया देवि दक्षभागे प्रकीर्त्तिता ॥१० राजावर्त्तस्तत्र भवेत्तत्र शीतामुखं च तत् । तदन्ते सागराः सप्त समुद्राश्च तदन्तके ॥११ तावत् श्रीवारुणारयन्तु⁶ प्रस्थं प्रोक्तं मया तव । कूर्मप्रस्थं महेशानि कथ्यते श्रृणु साम्प्रतम् ॥१२ गोकर्णेश⁷ दक्षभागे कामाख्या पूर्वगोचरः⁸ । उत्तरे मानसेशः स्यात् पश्चिमे सारदा भवेत् ॥१३ त्रिगुणा वर्त्तते तद्धि⁹ वज्रेस्यामुखमीरितम्¹⁰ ।