Pramāṇa · Search · About · API

Wilson Philological Lectures on Sanskrit and the Derived Languages c6.28

Wilson Philological Lectures on Sanskrit and the Derived Languages c6.28

Language
English

c6.28

१. यच्छिद्धि ते विशो यथा प्र देव वरुण व्रतम् । मिनीमसि द्यविद्यवि ॥
२. मा नो वधाय हत्नवे जिहीळानस्य रिरधः । मा हृणानस्य मन्यवे ॥
५. कदा क्षत्रश्रियं नरमा वरुणं करामहे । मृळीकायोरुचक्षसम् ॥
७. वेदा यो वीनां पदमन्तरिक्षेण पतताम् । वेद नावः समुद्रियः ॥
१०. नि षसाद धृतव्रतो वरुणः पस्त्यास्वा । साम्राज्याय सुक्रतुः ॥
११. अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति । कृतानि या च कर्त्वा ॥
१२. स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत् । प्र ण आयूंषि तारिषत् ॥
१९. इमं मे वरुण श्रुधी हवमद्या च मृळय । त्वामवस्युरा चके ॥

Cites (1)