Wilson Philological Lectures on Sanskrit and the Derived Languages c7.7
Wilson Philological Lectures on Sanskrit and the Derived Languages c7.7
- Language
- English
c7.7
श्रावस्त्यां किलादत्तपूर्वको नाम ब्राह्मणोभूत । तेन कस्मैचिन्किंचिददत्तपूर्वं तेन तमदत्तपूर्वस्त्वेव समज्झासत । तस्यैकपुत्रकोभूतप्रियो मनोज्ञः । तस्य षोडशवर्ष- काले पाण्डुरोग उद्पादि । माता पुत्रमवलोक्य ब्राह्मण पुत्रस्य ते रोग उत्पन्नश्चिकित्स्यैनमित्याह । भवति स चेद्वैद्यमानेष्यामि भक्तवेतनं दातव्यं भविष्यति । त्वं मम धनच्छेदं नावलोकयसि । अथ किं करिष्यसि ब्राह्मणोति । यथा मे धनच्छेदो न भवति तथा करिष्यामीति । स वैद्यानामन्तिकं गत्वामुकरोगस्य नाम यूयं किं भैषज्यं कुरुथेत्यप्राक्षीत् । अथास्य ते यद्वा तद्वा वृक्षत्वगाद्याचक्षते । स तदाहृत्य पुत्रस्य भैषज्यं करोति । तत्कुर्वत एवास्य रोगो बलवानभूत ।