A History of the Canonical Literature of the Jainas c5.130
A History of the Canonical Literature of the Jainas c5.130
- Language
- English
c5.130
¹ There is a difference of opinion as to whether these are the direct pupils of Lord Mahāvīra or the indirect ones, and as such they are not necessarily contemporaneous with Lord Mahāvīra. In this connection I may reproduce the following lines from Malayagiri Sūri's com. (p. 208b) on *Nandi*:— “एके सुरयः प्रज्ञापयन्ति-इदं किल चतुरशीतिसहस्रादिकं ऋषभदीनां तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्र-विरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यं, इतरथा पुनः सामान्यश्रमणाः प्रभूततरा अपि तस्मिन् २ ऋषभ-दिकाले आसीरन्, अपरे पुनरेवं प्रज्ञापयन्ति-ऋषभआदीर्थकृतां जीवतमिदं चतुरशीतिसहस्रादिकं श्रमण-परिमाणं प्रवाहतः पुनरैकस्मिन् तीर्थे भूयांसः श्रमणा वेदितव्याः, तत्र ये प्रधानसूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धतदग्रन्था अतत्कालिका अपि तीर्थे वर्तमानास्तथाधिकृता द्रष्टव्याः, एतदेव मतान्तरमुपदर्शयन्नाह- 'अथवे'त्यादि, अथवेति प्रकारान्तरपदर्शने, यस्य ऋषभआदीर्थकृतो यावन्तः शिष्यास्तीर्थे औत्पत्तिक्या वैनयिक्या कर्मजया पारिणामिक्या चतुर्विधया बुद्ध्या उपेताः-मन्विता आसीरन् तस्य-ऋषभआदेस्तावन्ति प्रकीर्णक-सङ्ख्याण्यभवन्, प्रत्येकबुद्धा अपि तावन्त एव, अत्रैके व्याचक्षते-इह एकैकस्य तीर्थकृतस्तीर्थेपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणामपरिमाणत्वात्, केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि प्रकीर्णकपरिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनात्, स्यादेतत्-प्रत्येकबुद्धानां शिष्यभावो विरुध्यते, तदेतद-समीचीनं, यतः प्रव्राजकाचार्यमेवाधिकृत्य शिष्यभावो निषिध्यते, न तु तीर्थकरोपदिष्टशास्त्रप्रतिपत्तृत्वेनापि, ततो न कश्चिद् दोषः, तथा च तेषां ग्रन्थः-इह तीर्थे अपरिमाणा पइन्ना, पइन्नगासामिअपरिमाणत्तओ, किंतु इह सुत्ते पत्तेयबुद्धपणीयं पइन्नगं भणियव्वं, कन्हा?, जम्हा पइण्णगपरिमाणेन चेव पत्तेयबुद्धपरिमाणं कीरइ, (इति) भणियं 'पत्तेयबुद्धा वि तत्तिया चेव' ति, चोयग आह-'नणु पत्तेयबुद्धा सिरसाभावो वि विरुद्धए' आयरिओ आह-'तिथयरपणीयमाणपडिवन्नओ तस्सीसा हवंती'ति, अन्ये पुनरेवाहुः-'सामान्येन प्रकीर्ण-कैस्तुल्यत्वात् प्रत्येकबुद्धानामभिधानं, न तु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति'।”
Cites (1)
- Nandī — Devavācaka, Ardhamāgadhī Prakrit