History of Classical Sanskrit Literature c5.16
History of Classical Sanskrit Literature c5.16
- Language
- English
c5.16
अत्र व्याकरणमहाभाष्यभावको गोनर्दीयो गोणिकातनयो नानादर्शननिष्णातॊ भगवान् पतञ्जलिः प्राह—"चत्वारि शृङ्गाणि चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्च । त्रयो अस्य पादाः । त्रयः कालाः भूतभविष्यद्वर्तमानाः । द्वे शीर्षे । द्वौ शब्दात्मानौ, नित्यः कार्य्यश्च । सप्त हस्तासो अस्य । सप्त विभक्तयः । त्रिधा बद्धः । त्रिषु स्थानेषु बद्धः । उरसि कण्ठे शिरसीति । वृषभो वर्षणात् रोरवीति शब्दं करोति । कुत एतत् । रौतिः शब्दकर्मा । महो देवो मर्त्याँ आविवेशेति । महान् देवः शब्दो मर्त्याँ मरणधर्माणो मनुष्याः तानाविवेश । महता देवेन नः साम्यं यथा स्यादित्यध्येयं व्याकरणम् ।" (इति महाभाष्ये पस्पशायाम्) ।