A History of Ancient Sanskrit Literature, so far as it illustrates the Primitive Religion of the Brahmans c10.208
A History of Ancient Sanskrit Literature, so far as it illustrates the Primitive Religion of the Brahmans c10.208
- Language
- English
c10.208
¹ वेदः पुनः सविशेष प्रत्यक्षगम्यः। तत्र घटादिवदेव पुरुषांतरस्थमुपलभ्य स्मरंति। तैरपि स्मृतमुपलभ्यान्येऽपि स्मरंतोऽन्येभ्यस्तथैव समर्थयंतीत्यनादिता॥ सर्वस्य चात्मीयस्मरणात्पूर्वमुपलव्धिः संभवतीति निर्मूलता॥ शब्दसंबंधव्युत्पत्तिमात्रमेव चेह वृद्धव्यवहाराधीनं॥ प्रागपि हि वेदशब्दादन्यवस्तुविलक्षणं वेदांतरविलक्षणं चाध्येतृस्थमृग्वेदादिरूपं मंत्रब्राह्मणादिरूपाणि चान्यविलक्षणान्युपलभंते सर्वेषां चानादयः संज्ञाः॥