A History of Ancient Sanskrit Literature, so far as it illustrates the Primitive Religion of the Brahmans c6.175
A History of Ancient Sanskrit Literature, so far as it illustrates the Primitive Religion of the Brahmans c6.175
- Language
- English
c6.175
चतुर्वेदी च यो विप्रो वासुदेवं न विंदति।
वेदभारभयाक्रांतः स वै ब्राह्मणगर्दभः॥
तस्माद्वैष्णवत्वेन ब्राह्मण्य्यादि विहीयते।
वैष्णवत्वेन संसिद्धिं लभते नात्र संशयः॥
नारायणं परं ब्रह्म ब्राह्मणानां हि दैवतं।
सोमसूर्यादयो देवाः क्षत्रियाणां विशामपि॥
शूद्रादीनां तु रुद्राद्या अर्चनीयाः प्रयत्नतः।
यत्र रुद्रार्चनं प्रोक्तं पुराणेषु स्मृतिष्वपि॥
तदब्रह्मण्यविषयमेवाह प्रजापतिः।
रुद्रार्चनं त्रिपुंड्रं च पुराणेषु च गीयते॥
क्षत्रविट्शूद्रजातीनां नेतरेषां तदुच्यते।
तस्मात् त्रिपुंड्रं विप्राणां न धार्यं मुनिसत्तमाः॥