A History of Ancient Sanskrit Literature, so far as it illustrates the Primitive Religion of the Brahmans c8.s2.103
A History of Ancient Sanskrit Literature, so far as it illustrates the Primitive Religion of the Brahmans c8.s2.103
- Language
- English
c8.s2.103
प्रबोधपरिशुद्धयर्थं शौनकस्य प्रियं त्विति। सहस्रखंडं स्वकृतं सूत्रं ब्राह्मणमनिभं॥ शिष्याश्वलायनप्रीतयै शौनकेन विपाटितं। उक्तं तत्तत्कृतं सूत्रमस्य वेदस्य चास्खिति॥ शौनकीया दश ग्रंथास्तदा ऋग्वेदगुप्तये। आर्षानुक्रमणीत्याद्या छंदसी दैवती तथा॥ अनुवाकानुक्रमणी सूक्तानुकमणी तथा। ऋक्पादयोर्विधाने च बार्हदैवतमेव च॥ प्रातिशाख्यं शौनकीयं स्मार्तं दशममुच्यते। स सूत्रदशकं ज्ञात्वा तया साङ्गतगोत्रजः॥ शौनकस्य प्रसादेन कर्मज्ञः समपद्यत। कात्यायनमुनिर्मेने त्रयोदशकमच तु॥ शौनकीयं च दशकं तद्विष्यस्य त्रिकं तथा। द्वादशाध्यायकं सूत्रं चतुष्कगृह्यमेव च॥ चतुर्थरव्यकं चेति ह्याश्वलायनसूचकं। सशिष्यशौनकाचार्यत्रयोदशकविन्मुनिः॥ वाजिनां सूत्रकृत्साम्नामुपग्रंथस्य कारकः। स्मृतेश्च कर्ता श्लोकानां भाजमानां च कारकः॥ अथर्वणां निर्ममे यः सम्यग्वै ब्राह्मकारिकाः। महावार्त्तिकनौकारः पाणिनीयमहार्णवे॥