Studies in the Epics and Puranas c10.16
Studies in the Epics and Purāṇas c10.16
- Language
- English
c10.16
शृणु विप्र प्रवक्ष्यामि पुराणं वायवीय कम् ।
यस्मिन् श्रुते लभेद्धाम रुद्रस्य परमात्मनः ॥ १ ॥
चतुर्विंशतिसाहस्रं तत्पुराणं प्रकीर्तितम् ।
श्वेतकल्पप्रसंगेन धर्मान्व्राह मारुतः ॥ २ ॥
तद्वायवीयमुदितं भागद्वयसमाचितम् ।
सर्गादिलक्षणं यत्र प्रोक्तं विप्र सविस्तरम् ॥ ३ ॥
मन्वन्तरेषु वंशाश्च राज्ञां ये यत्र कीर्तिताः ।
गयासुरस्य हननं विस्तराद्यत्र कीर्तितम् ॥ ४ ॥
मासानां चैव माहात्म्यं माघस्योक्तं फलाधिकम् ।
दानधर्मा राजधर्मा विस्तरेणोदितास्तथा ॥ ५ ॥
भूप तालककुव्योमचारिणां यत्र निर्णयः ।
व्रतादीनां च पूर्वोऽयं विभागः समुदाहृतः ॥ ६ ॥
Linked texts (1)
- Vāyupurāṇa — Vyāsa, Sanskrit