Pramāṇa · Search · About · API

The Orion, or Researches into the Antiquity of the Vedas c7.40

The Orion, or Researches into the Antiquity of the Vedas c7.40

Language
English

c7.40

तस्य सा निर्या यदपोऽनभिनंदतोऽभ्यवयंति ॥ ३ ॥ विच्छिन्नं वाएते संवत्सरस्याभिदीक्षंते यएकाष्टकायां दीक्षंतेऽतनामानावृतू भवतः ॥ ४ ॥ आर्तं वाएते संवत्सरस्याभिदीक्षंते यैऽतनामानावृतू अभिदीक्षंते ॥ ५ ॥ तस्मादेकाष्टकायां न दीक्ष्यम् ॥ ६ ॥ फाल्गुने दीक्षेरन् ॥ ७ ॥ मुखं वाएतत्संवत्सरस्य यत्फाल्गुनो मुखतएव तत् संवत्सरमारभ्य दीक्षंते ॥ ८ ॥ तस्य सा निर्या यत्सम्मेघे विषुवान् संपद्यते ॥ ९ ॥ चित्रापूर्णमासे दीक्षेरन् ॥ १० ॥ चक्षुर्वाएतत् संवत्सरस्य यच्चित्रापूर्णमासो मुखतो वै चक्षुर्मुखतएव तत् संवत्सरमारभ्य दीक्षंते तस्य न निर्यास्ति ॥ ११ ॥ चतुरहे पुरस्तात् पौर्णमास्या दीक्षेरन् ॥ १२ ॥ तेपामेकाष्टकायां क्रयः संपद्यते तेनैकाष्टकां न संवत् कुर्वंति ॥ १३ ॥ तेषां पूर्वपक्षे सुत्या संपद्यते पूर्वपक्षे मासाः संतिष्ठमाना यंति पूर्वपक्षेऽत्तिष्ठंति तानुत्तिष्ठतः पशवः औषधयोऽनुत्तिष्ठति तान्कल्याणी वागभिवदत्यरात्सुरिमे सत्रिणहति राप्नुवंति ॥ १४ ॥