The Position of Women in Hindu Civilisation, from Prehistoric Times to the Present Day c7.s1.4
The Position of Women in Hindu Civilisation, from Prehistoric Times to the Present Day c7.s1.4
- Language
- English
c7.s1.4
¹ > अनाहताः किल पुरा स्त्रिय आसन्वरानने । कामाचारविहारिण्यः स्वतंत्राश्चारुहासिनि ॥ ४ ॥ तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् । नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराऽभवत् ॥ ५ ॥ प्रमाणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः । उत्तरेषु च रम्भोरु कुरुष्वद्यापि दृश्यते ॥ स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ॥ ७ ॥ अस्मिंस्तु लोके न चिरान्मर्यादेयं शुचिस्मिते ॥ स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु । बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् ॥ ९ ॥ श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः । मर्यादेयं कृता तेन धर्म्या वै श्वेतकेतुना ॥ १२ ॥ तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम् । व्युच्चरन्त्याः पतिं नार्या अद्यप्रभृति पातकम् ॥ ४४ ॥ भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम् । भार्या तथा व्युच्चरतः कौमारब्रह्मचारिणीम् ॥ पतिव्रतामेतदेव भविता पातकं भुवि ॥ ४७ ॥ *Mbh.* I, 128.
Linked texts (1)
- Mahābhārata — Vyāsa, Sanskrit