Hindu Administrative Institutions c8.s2.90
Hindu Administrative Institutions c8.s2.90
- Language
- English
c8.s2.90
¹ यस्तु स्यात्कामवृत्तोऽपि पार्थ ब्रह्म पुरस्कृतः । जयेन्नक्तञ्चरान्सर्वान्सपुरोहितधूर्ततः ॥ तस्मात्तापत्य यत्किञ्चिन्नृणां श्रेय इहेप्सितम् । तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः ॥ वेदे षडङ्गे निरताः शुचयः सत्यवादिनः । धर्म्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः ॥ जयश्च नियतो राज्ञः स्वर्गश्च तदनन्तरम् । यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः ॥ लाभं लब्धुमलब्धं वा लब्धं वा परिरक्षितुम् । पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् ॥ पुरोहितमते तिष्ठेद्य इच्छेद्भूतिमात्मनः । प्राप्तुं वा सुमतीं सर्वां सर्वशः सागराम्बराम ॥