The Mauryan Polity c12.62
The Mauryan Polity c12.62
- Language
- English
c12.62
वंशे विशालवंशानाम् ऋषीणामिव भूयसाम् ।
अप्रतिग्राहकाणां यो बभूव भुवि विश्रुत: ॥
जातवेदा इवाचिष्मान् वेदान् वेदविदां वर: ।
योऽधीतवान् सुचतुरश्चतुरोऽप्येकवेदवत् ।
यस्याभिचारवज्रेण वज्रज्वलनतेजस: ॥
पपातमूलता: श्रीमान् सुपर्वा नन्दपर्वत: ।
एकाकी मन्त्रशक्त्या य: शक्त्या शक्तिधरोपम: ॥
आजहार नृचन्द्राय चन्द्रगुप्ताय मेदिनीम् ।
नीतिशास्त्रामृतं धीमान् अर्थशास्त्रमहोदधे: ॥
यमुह्य्रे नमस्तस्मै विष्णुगुप्ताय वेधसे ।
दर्शनात्तस्य सुदृशो विद्यानां पारह्रन: ।
राजविद्याप्रियतया संक्षिप्तग्रन्थमत्यवत् I, 2:8.
Linked texts (2)
- Mudrārākṣasa — Viśākhadatta, Sanskrit
- Kāmandakīya Nītisāra — Kāmandaki, Sanskrit