War in Ancient India c7.s1.17
War in Ancient India c7.s1.17
- Language
- English
c7.s1.17
रथोद्वहनखिन्नाश्च त इमे रथवाजिनः ।
दीना धर्मपरिश्रान्ता गावो वर्षहता इव ॥
निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः ।
तेषु तेष्वभिप्रन्नेषु लक्ष्याभ्यप्रदक्षिणम् ॥
देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च ।
दैन्यं खेदश्च हर्षश्च रथिनश्च बलाबलम् ॥
स्थलनिम्नानि भूमेश्च समानि विषमानि च ।
युद्धकालश्च विज्ञेयो परस्यान्तरदर्शनम् ॥
उपयानाप्याने च स्थानं प्रत्यपसर्पणम् ।
सर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना ॥