War in Ancient India c8.10
War in Ancient India c8.10
- Language
- English
c8.10
मन्त्रमूलं हि विजयं प्राहुरायां मनस्विनः ।
तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः ॥
त्रिविधाः पुरुषाः लोके उत्तमाधममध्यमाः ।
तेषां तु समवेतानां गुणदोषौ वदाम्यहम् ।
मन्त्रिमिर्हितसंयुक्तैः समर्थैरमन्त्रनिर्णये । मित्रैर्वापि समानार्थैर्बान्धवैर्वापि बाहितैः ॥
सहितो मन्त्रयित्वाथः कर्मारम्भान्प्रवर्तयेत् । दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम्॥
एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः । एकःकार्याणि कुरुते तमाहुर्मध्यमं नरं ॥
गुणदोषान्निश्चित्य त्यक्त्वा धर्मव्यपाश्रयं । करिष्यामीति यः कार्यमुपेक्षत्स
नराधमः ॥
यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः । एवं मन्त्रा हि विज्ञेया उत्तमाधममध्यमाः॥
ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा । मलिणो यत्र निरतास्तमाहुर्मनुत्तमम् ॥
बह्वीरपि मतीर्ज्ञात्वा मन्त्रिणामर्थनिर्णये ।
पुनः यत्रैकतां प्राप्तः स मन्त्रो मध्यमःस्मृतः ॥
अन्योन्यं मतिमास्थाय यत्र संप्रतिभाष्यते ।
न चैकमत्यं श्रेयोऽस्ति मन्त्रः सोऽधमउच्यते ॥
तस्मात्सु मन्त्रितं साधु भवन्तो मतिसत्तमाः ।
कार्यं संप्रतिपद्यन्तामेतकृत्यं मतं मम ॥