Hindu Polity: A Constitutional History of India in Hindu Times c18.59
Hindu Polity: A Constitutional History of India in Hindu Times c18.59
- Language
- English
c18.59
इन्द्रमेव प्रणमते यद्राजानमिति श्रुतिः।
यथैवेन्द्रस्तथा राजा संपूज्यो भूतिमिच्छता ॥ ३ ॥
अराजकाः प्रजाः सर्वा पूर्वं विनेषुरिति नः श्रुतम्।
परस्परं भक्षयन्तो मत्स्या इव जले कृशान् ॥ १६ ॥
समेत्य तास्ततश्चक्रुः समयानिति नः श्रुतम्।
वाक्शूरो दण्डपरुषो यश्च स्यात्पारदारिकः ॥ १७ ॥
यश्च नः समयं भिन्द्यात्त्याज्या नस्तादृशा इति ।
विश्वासार्थं च सर्वेषां वर्णानामविशेषतः।
तास्तथा समयं कृत्वा समयेनावतस्थिरे ॥ १८ ॥
सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम्।
अनीश्वरा विनश्यामौ भगवन्नीश्वरं दिश। २० ॥
Linked texts (1)
- Mahābhārata — Vyāsa, Sanskrit