Pramāṇa · Search · About · API

Hindu Polity: A Constitutional History of India in Hindu Times c30.12

Hindu Polity: A Constitutional History of India in Hindu Times c30.12

Language
English

c30.12

नारद उवाच ।
शक्त्यान्नदानं सततं तितिक्षाऽऽर्जवमार्दवम् ।
यथार्हंप्रतिपूजा च शस्त्रमेतदनायसम् ॥ २१ ॥
ज्ञातीनां वक्तुकामानां कटुकानि लघूनि च ।
गिरा त्वं हृदयं वाचं शमयस्व मनांसि च ॥ २२ ॥
नामहापुरुषः कश्चिन्नानात्मा नासहायवान् ।
महतीं धुरमादाय समुद्यम्योरसा वहेत् ॥ २३ ॥
सर्व एव गुरुं भारमनड्डान्वहते समे ।
दुर्गे प्रतीतः सुगभो भारं वहति दुर्वहम् ॥ २४ ॥

Linked texts (1)