Pramāṇa · Search · About · API

Hindu Polity: A Constitutional History of India in Hindu Times c35.5

Hindu Polity: A Constitutional History of India in Hindu Times c35.5

Language
English

c35.5

आ त्वा॑हा॒र्षम॒न्तर॑भू॒र्ध्रु॒वस्ति॒ष्ठावि॑चाचलत् ।
विश॑स्त्व॒ा सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥ १
इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलत् ।
इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥ २
इन्द्र॑ एतमदीधरद् ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑ ।
तस्मै॒ सोमो॒ अधि॑ ब्रवद॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ॥ ३
ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वं विश्व॑मि॒दं जग॑त् ।
ध्रु॒वासः॒ पर्व॑ता इ॒मे ध्रु॒वो राजा॑ वि॒शाम॒यम् ॥ १
ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ ।
ध्रु॒वं त॒ इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥ २
ध्रु॒वोऽच्यु॑तः॒ प्र मृ॑णीहि॒ शत्रून्ᳵशत्रू॒यतो॑ऽध॒रान् पा॑दयस्व ।
सर्वा॑ दि॒शः संम॑नसः स॒ध्रीची॑र्ध्रु॒वाय॑ ते॒ समि॑तिः कल्पतामि॒ह ॥३