Hindu Polity: A Constitutional History of India in Hindu Times c38.37
Hindu Polity: A Constitutional History of India in Hindu Times c38.37
- Language
- English
c38.37
तुल्यपाणिभुजोपवस्तुल्पबुद्धीन्द्रियात्मकः ।
तुल्यदुःखसुखात्मा च तुल्यपृष्ठमुखोदरः ॥ ६ ॥
तुल्यशुक्रास्थिमज्जा च तुल्यमांसासृगेव च ।
निःश्वासोच्छ्वासतुल्यश्च तुल्यप्राणशरीरवान् ॥ ७ ॥
समानजन्ममरणः समः सर्वेषु देहि षाम् ।
विशिष्टबुद्धीञ्शूरांश्च कथमेकोऽधितिष्ठति ॥ ८ ॥
कथमेको महीं कृत्स्नां शूरवीराग्र्यसंकुलाम् ।
रक्षत्यपि च लोकस्य प्रसादमनिवाञ्छति ॥ ९ ॥
एकस्यतु प्रसादेन कृत्स्नो लोकः प्रसीदति ।
व्याकुले चाकुलः सर्वो भवतीति विनिश्चयः ॥ १० ॥
एतदिच्छाम्यहं श्रोतुं त्वत्तो हि भरतर्षभ ।
कृत्स्नं तन्मे यथातत्त्वं प्रब्रू हि वदतां वरः ॥ ११ ॥
नैतत्कारणमल्पं भविष्यति विशांपते ।
यदेकस्मिन्जगत्सर्वं देववद्याति सन्नतिम् ॥ १२ ॥