Pramāṇa · Search · About · API

Hindu Polity: A Constitutional History of India in Hindu Times c39.21

Hindu Polity: A Constitutional History of India in Hindu Times c39.21

Language
English

c39.21

एकमेव दहत्यग्निर्नंरं दुरूपसर्पिणम्।
कुलं दहति राजाग्निः सपशुद्रव्यसञ्चयम् ॥ ९
कार्यं चावेक्ष्य शक्तिं च देशकालौ च तत्त्वतः।
कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः॥ १०
यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे।
मृत्युश्च वसति कोधे सर्वतेजोमयो हि सः ॥ ११
तं यस्तु द्वेष्टि संमोहात्स विनश्यत्यसंशयम्।
तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः ॥ १२
तस्माद्धर्मं यमिष्टेषु संव्यवस्येन्रराधिपः।
अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत् ॥ १३