Pramāṇa · Search · About · API

Hindu Polity: A Constitutional History of India in Hindu Times c41.87

Hindu Polity: A Constitutional History of India in Hindu Times c41.87

Language
English

c41.87

प्रागेव तु धनादानमनुभाष्य ततः पुनः ।
सन्निपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत् ॥ २६
इयमापत्समुत्पन्ना परचक्रभयं महत् ।
अपि चान्ताय कल्पन्ते वेणोरिव फलागमाः ॥ २७
अरयो मे समुत्थाय बहुभिर्दस्युभिः सह ।
इदमात्मवधायैव राष्ट्रमिच्छन्ति बाधितुम् ॥ २८
अस्यामापदि घोरायां संत्रासे दारुणे भये ।
परित्राणाय भवतः प्रार्थयिष्ये धनानि वः ॥ २९
प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये ।
नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः ॥ ३०
कलत्रमादितः कृत्वा सर्वं वो विनशेदिति ।
शरीरपुत्रदारार्थमर्थसञ्चय इष्यते ॥ ३१
नन्दामि वः प्रभावेण पुत्राणामिव चोदये ।
यथाशक्त्युपगृह्णामि राष्ट्रस्यापीडया च वः ॥ ३२
आपत्स्वेव निबोद्धव्यं भवद्भिः संगतैरिह ।
न वः प्रियतरं कार्यं धनं कस्यांचिदापदि ॥ ३३
इति वाचा मधुरया श्लक्ष्णया सोपचारया ।
स्वरश्मीनभ्यवसृजेद्योगमाधाय कालवित् ॥ ३४

Linked texts (1)