History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v1.c6.s14.26
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v1.c6.s14.26
- Language
- English
v1.c6.s14.26
¹⁶⁹ (a) अभियुक्तो न प्रत्यभियुञ्जीत अन्यत्र कलहसाहससार्थसमवायेभ्यः । न चाभियुक्तेऽभियोगोस्ति । कौ. III. 1; अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् । कुर्यात्प्रत्यभियोगं च कलहे साहसेषु च ॥ याज्ञ. II. 9-10; (b) प्रतिरोधकव्याधिदुर्भिक्षभयप्रतीकारे धर्मकार्ये च पत्युः । कौ. III. 2; दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके । गृहीतं स्त्रीधनं भर्त्ता न स्त्रियै दातुमर्हति ॥ याज्ञ. II 147; (c) सोदर्याणामनेकापितृकाणां पितृतो दायविभागः । कौ. III. 5; अनेकपितृकाणां तु पितृतो भागकल्पना । याज्ञ. II. 120;
(d) नष्टापहृतमासाद्य स्वामी धर्मस्थेन ग्राहयेत् । देशकालातिपत्तौ वा स्वयं गृहीत्वोपहरेत् । कौ. III. 16; नष्टोपहृतमासाद्य हर्तारं ग्राहयेन्नरम् । देशकालातिपत्तौ च गृहीत्वा स्वयमर्पयेत् ॥ याज्ञ. II. 169; (e) वानप्रस्थयतिब्रह्मचारिणामाचार्यशिष्यधर्मभ्रातृसमानतीर्थ्या रिक्थभाजः । कौ. III. 16; वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः । क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥ याज्ञ. II. 137.
Linked texts (2)
- Kauṭilīya Arthaśāstra — Kauṭilya, Sanskrit
- Yājñavalkyasmṛti — Yājñavalkya, Sanskrit