History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v1.c6.s60.19
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v1.c6.s60.19
- Language
- English
v1.c6.s60.19
⁶⁸⁹ भवदेवस्तु ... तस्मादेवं वाच्यं यदयं यथोक्तो भोगः पूर्वस्वामिनो भोक्तुरुद्देशेन त्यागात् तत्स्वत्वध्वंसमर्थापयति अनुमापयति वा । ... तथा च तदुद्देशेन त्यक्ते तत्परिग्रहणादेव परस्य तत्र स्वत्वमप्युपपद्यते । ... अत्र प्रदीपकृतः । यत्र हि मत्कृत्ये-(ष्ये !) दानीं नात्र फलसम्भावना तदधुना .तावत्पर एव भुक्त्वा (भुंक्तां !) पश्चादेतत्त्सकाशात्सफलोपभोगां भुवं ग्रहीष्यामीत्यभिसंधाय भूम्यादिस्वामी तत्र परोपभोगं क्षमते तत्रापि विंशत्यभ्यधिको भोगोस्ति स्वामिनस्तदुद्देशेन त्यागश्च नास्तीति व्यभिचारान्नेदृशभोगस्य पूर्वस्वामिस्वत्वत्यागे प्रामाण्यम् । किं च भूस्वामी सचेताः किमिति वृथैव तत्र स्वत्वं जह्यात् । न ह्यत्र दृष्टमुद्देश्यं नाप्यदृष्टं धर्मशास्त्रोकेतिकर्तव्यताविरहात् । ... नापि यदुद्देशेन यत्त्यज्यते तत्तस्य स्यामिति नियमः । उद्देश्येनागृहीते व्यभिचारात् । वीर० p. 212-14.