History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v2.c19.164
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v2.c19.164
- Language
- English
v2.c19.164
¹⁵⁹ Compare the following lucid note of the पराशरमाधवीय I. part 2 p. 122 कूटस्थस्त्रीपुंसयुग्मारभ्य परिगणनायां पञ्चमे षष्ठे सप्तमे वानुलोम्येन युगे जात्युत्कृष्टयते। पुमान् विप्रः वधूः शूद्रा तयोर्युग्मं कूटस्थम्। तस्मादुत्पन्ना निषादी सापि विप्रेणोढा तयोर्युग्मं द्वितीयम्। एवं तदुत्पन्नायां बध्वां विप्रेणोढायां तृतीयादियुग्मपरंपरा भवति। तत्र सप्तमे युगे जातमपत्यं ब्राह्मण्योपेतं भवति। एवं वैश्याविप्रयुगलं कूटस्थम्। तस्मादुत्पन्ना अम्बष्ठा तस्याश्च विप्रस्य च युग्मं द्वितीयम्। एवं...षष्ठं यद्युग्मं तस्मादुत्पन्नस्य ब्राह्मण्यं भवति। तथा क्षत्रियाविप्रयोर्युग्मं कूटस्थं तदुत्पन्ना मूर्धावसिक्ता तस्याश्च विप्रस्य च युग्मं द्वितीयम्। तत्परंपरायां पञ्चमाद्युग्मादुत्पन्नस्य ब्राह्मण्यं भवति। एतदुक्तं भवति पञ्चमे षष्ठे सप्तमे वेति व्यवस्थितविकल्पाः कूटस्थदम्पत्योः समनन्तरैकान्तरद्वयन्तरजातियोगे पञ्चमादयोऽवगन्तव्या इति। तथा च सति शूद्रावैश्ययोः वैश्याक्षत्रिययोश्च समनन्तरत्वात्पञ्चमे, शूद्राक्षत्रिययोस्तु षष्ठे जात्युत्कृष्टयते। ...... यथा वर्णसांकर्ये प्रातिलोम्यमधममानुलोम्यमुत्तमं तथा वृत्तिसांकर्येऽपि। तथा क्षत्रियस्यापद्यपि याजनादिब्राह्मणवृत्त्युपजीवनमधमम्।