History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v2.c26.164
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v2.c26.164
- Language
- English
v2.c26.164
¹⁰⁹⁹ अतः सिद्धमेतत् । कलावपि येषां कुले देशेऽप्युकल्पत्वेन सापिण्ड्यसंकोचः परंपरया समागतः तेषां तादृशसंकोचेन विवाहे न दोषः । अस्ति च भार्यात्वोत्पत्तिः । अन्येषां तैः सह व्यवहारे नैव दोषः । स्वयं तु कुलदेशविरूद्धसापिण्ड्यसंकोचेन विवाहे भवत्येव दोषः । न च भार्यात्वोत्पत्तिः । दृश्यन्ते हि स्वयं सापिण्ड्यसंकोचेन विवाहमुकुर्वन्तोऽपि तादृशसंकोचेनासकृज्जातविवाहेभ्यः कुलेभ्यः कन्याः स्वीकुर्वन्तस्तत्कुलीनान् श्राद्धादौ भोजयन्तश्च बहवः शिष्टाः । अत एव मातुलकन्योद्वाहिनां हेमाद्र्यादौ श्राद्धनिषेधोपि स्वकुलदेशपरंपरयानागतसापिण्ड्यसंकोचेन कृतविवाहविषय एवेति बोध्यम् । संस्कारकौस्तुभ p. 620.
Linked texts (2)
- Hemādri
- Saṃskārakaustubha — Anantadeva 1625, Sanskrit