Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v2.c26.331

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v2.c26.331

Language
English

v2.c26.331

¹¹⁹⁰ पुत्राभावे तु दुहिता तुल्यसंतानदर्शनात् । पुत्रश्च दुहिता चोभौ पितुः संतानकारको ॥ नारद (दायभाग 50); अङ्गादङ्गात् संभवति पुत्रवद्दुहिता नृणाम् । तस्यां पितृधनं त्वन्यः कथं गृह्णीत मानवः ॥ बृहस्पति quoted by अपरार्क p. 743 ; केनापि कृता धर्मानाभिमता मे स्थितिरियं यदङ्कसंभूतान्यङ्कलालितान्यपरित्याज्यान्यपत्यकान्यकाण्ड एवागत्यासंस्तुतैर्नीयन्ते । ...... यदपत्यत्वे समानेऽपि दूयन्ते सन्तः । एतदर्थं जन्मकाल एव कन्यकाभ्यः प्रयच्छन्ति सलिलमश्रुभिः साधवः । हर्षचरित 4th Ucchvāsa. कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् । न ज्ञायते च कः कन्यां वरयेदिति कस्यके ॥ मातुः कुलं पितृकुलं यत्र चैव च दीयते । कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥ रामायण (उत्तरकाण्ड 9. 10-11.). उद्योगपर्व 97. 16 has मातुःकुलं ...... कुलत्रयं संशयितं कुरुते कन्यका सताम् ।

Linked texts (5)