Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v2.c26.342

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v2.c26.342

Language
English

v2.c26.342

¹¹⁹⁹ राजमार्तण्डीये। राजग्रस्ते तथा युद्धे पितॄणां प्राणसंशये। अतिप्रौढा च या कन्या नानुकूल्यं प्रतीक्षते। अतिवृद्धा च या कन्या कुलधर्मविरोधिनी। अविशुद्धापि सा देया चन्द्रलग्नबलेन तु। भुजबलभीमे। ग्रहशुद्धिमब्दशुद्धिं शुद्धिं मासायनर्तुदिवसानाम्। अर्वाग्-दशवर्षभ्यो मुनयः कथयन्ति कन्यकानाम्। दशवर्षाभ्यन्तरे शुद्धौ महाब्दादीनां विशेषो-पादानात् तदूर्ध्वं तावन्मात्रानियमः। अत्रैव विषये 'मङ्गल्येषु विवाहेषु कन्यासंवरणेषु च। दशमासाः प्रशस्यन्ते चैत्रपौषविवर्जिताः' इति राजमार्तण्डोक्तम्। उद्वाहतत्त्व p. 124.