History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v2.c28.s2.70
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v2.c28.s2.70
- Language
- English
v2.c28.s2.70
¹³³⁹ न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते । गृहं तु गृहिणीहीनमरण्यसदृशं मतम् ॥ शान्ति 144. 6; नास्ति भार्यासमो बन्धुः नास्ति भार्यांसमा गतिः । नास्ति भार्यासमो लोके सहायो धर्मसंग्रहे । शान्ति 144. 16; यदा भार्या च भर्ता च परस्परवशानुगौ । तदा धर्मार्थकामानां त्रयाणामपि संगतंम् ॥ कथं भार्यामृते धर्ममर्थं वा पुरुषः प्रभो । प्राप्नोति काममथवा तस्यां त्रितयमाहितम् ॥ तथैव भर्तरिमृते भार्या धर्मादिसाधने । न समर्था त्रिवर्गेऽयं दाम्पत्यं समुपाश्रितः ॥ मार्कण्डेयपुराण 21. 69-71.
Linked texts (2)
- Mārkaṇḍeyapurāṇa — Vyāsa, Sanskrit
- Mahābhārata — Vyāsa, Sanskrit