History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v2.c28.s2.87
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v2.c28.s2.87
- Language
- English
v2.c28.s2.87
¹³⁵³ येप्यङ्गनानां प्रवदन्ति दोषान्वैराग्यमार्गेण गुणान् विहाय । ते दुर्जना मे मनसो वितर्कः सद्भाववाक्यानि न तानि तेषाम् ॥ प्रब्रूत सत्यं कतरोऽङ्गनानां दोषोऽस्तु यो नाचिरतो मनुष्यैः । धाष्टर्येन पुंभिः प्रमदा निरस्ता गुणाधिकास्ता मनुनात्र चोक्तम् ॥ जाया वा स्याज्जनित्री वा स्यात्संभवः स्त्रीकृतो नृणाम् । हे कृतघ्नास्तयोर्निन्दां कुर्वतां वः कुतः सुखम् ॥ अहो धाष्टर्यमसाधूनां निन्दतामनघाः स्त्रियः । मुष्णतामिव चौराणां तिष्ठ चौरेति जल्पताम् ॥ पुरुषश्चटुतानि कामिनीनां कुरुते यानि रहो न तानि पश्चात् । सुकृतज्ञतयाङ्गना गतासूनवगुह्य प्रविशन्ति सप्तजिह्वम् ॥ बृहत्संहिता 74. 5, 6, 11, 15, 16. Verses 7 and 9 are the same as Baud. gṛ. II. 2. 63-64 and verse 10 is Manu III. 58; verses 7-8 are almost the same as वसिष्ठ. 28. 4 and 9.
Linked texts (4)
- Mānava Dharmaśāstra — Manu & Bhṛgu, Sanskrit
- Vasiṣṭhadharmasūtra — Vasiṣṭha, Sanskrit
- Baudhāyanagṛhyasūtra — Baudhāyana, Sanskrit
- Bṛhatsaṃhitā — Varāhamihira, Sanskrit