History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v2.c32.27
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v2.c32.27
- Language
- English
v2.c32.27
¹⁴⁷⁹ पुंवत्स्त्रीणामपि प्रतिषिद्ध आत्मत्यागो यदप्याङ्गिरसे पतिमनुम्नियेरन्नित्युक्तं तदपि नित्यवदवश्यं कर्तव्यम् । फलस्तुतिस्तत्रास्ति फलकामा याश्चाधिकारे श्येनतुल्यता । तथैव श्येनेन हिंस्याद्भूतानीत्यधिकारस्यातिप्रवृद्धतरद्वेषान्धतया सत्यामपि प्रवृत्तौ न धर्मत्वम्, एवमिहापि अतिप्रवृद्धफलाभिलाषायाः सत्यपि प्रतिषेधे तदतिक्रमेण मरणे प्रवृत्त्युपपत्तेर्न शास्त्रीयत्वमतोस्त्येव पतिमनु मरणेऽपि स्त्रियाः प्रतिषेधः । किं च 'तस्मादु ह न पुरायुषः प्रेयात्' इति प्रत्यक्षश्रुतिविरोधोयम् । मेधा॰ on मनु V. 156. The words of शबर are 'नैव श्येनादयः कर्तव्या विज्ञायन्ते । यो हि हिंसितुमिच्छेत्तस्यायमभ्युपाय इति तेषामुपदेशः । श्येनेनाभिचरन्यजेतेति हि समामनन्ति नाभिचरितव्यमिति । on जै. I. 1. 2. p. 19.