Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c44.12

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c44.12

Language
English

v3.c44.12

²⁰⁷² अथातो वापीकूपतडागारामदेवतायतनानां प्रतिष्ठापनं व्याख्यास्यामस्तत्रोदगयन आपूर्यमाणपक्षे पुण्येऽह्ने तिथिवारनक्षत्रकरणे च गुणान्विते तत्र वारुणं यवमयं चरुं श्रपयित्वाज्यभागाविष्ट्वाज्याहुतीर्जुहोति त्वं नो अग्ने स त्वं नो अग्ने इमं मे वरुण तत्त्वा यामि ये ते शतमयाश्चाग्न उदुत्तममुरुं हि राजा वरुणस्योत्स्तम्भनमग्नेरनीकमिति दशर्चं हुत्वा स्थालीपाकस्य जुहोत्यग्नये स्वाहा शतक्रतवे स्वाहा व्युष्ट्यै स्वाहा स्वर्गाय स्वाहेति यथोक्तं स्विष्टकृत्प्राशनान्ते जलचराणि क्षिप्त्वालंकृत्य गां तारयित्वा पुरुषसूक्तं जप्त्वाचार्यीय वरं दत्त्वा कर्णवेष्टकौ वासांसि धेनुंदक्षिणा ततो ब्राह्मणभोजनम् । पार. गृ. परिशिष्ट.