History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v3.c46.38
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v3.c46.38
- Language
- English
v3.c46.38
²¹⁵³ तत्र कुटीचका गौतमभारद्वाजयाज्ञवल्क्यहारीतप्रभृतीनामाश्रमेष्वष्टौ ग्रासांश्चरन्तो योगमार्गतत्त्वज्ञा मोक्षमेव प्रार्थयन्ते। बहूदकास्त्रिदण्डकमण्डलुकाषायधातुवस्त्रग्रहणवेषधारिणो ब्रह्मर्षिगृहेषु चान्येषु साधुवृत्तेषु मांसलवणपर्युषितान्नं वर्जयन्तः सप्तागारेषु भैक्षं कृत्वा मोक्षमेव प्रार्थयन्ते। हंसा नाम ग्रामे चैकरात्रं नगरे पञ्चरात्रं वसन्तस्तदुपरि न वसन्तो गोमूत्रगोमयाहारिणो वा मासोपवासिनो वा नित्यचान्द्रायणव्रतिनो नित्यमुत्थानमेव प्रार्थयन्ते। परमहंसा नाम वृक्षमूले शून्यागारे श्मशाने वा वासिनः साम्बरा वा दिगम्बरा वा । न तेषां धर्माधर्मौ सत्यानृते शुच्यशुच्यपि द्वैतम्। सर्वसमाः सर्वात्मानः समलोष्टाश्मकाञ्चनाः सर्ववर्णेषु भैक्षाचरणं कुर्वन्ति। वैखानससूत्र VIII. 9.
Linked texts (1)
- Vaikhānasadharmasūtra — Vikhanas, Sanskrit