History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.1144
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.1144
- Language
- English
v4.c63.1144
¹⁰⁹⁹ परभक्तोपयोगेन विद्या प्राप्तान्यतस्तु या । तया प्राप्तं धनं यत्तु विद्याप्राप्तं तदुच्यते ॥ उपन्यस्ते तु यल्लब्धं विद्यया पणपूर्वकम् । विद्याधनं तु तद्विद्याद्विभागे न विभज्यते ॥ शिष्यादार्त्विज्यतः प्रश्नात्सन्दिग्धप्रश्ननिर्णयात् । स्वज्ञानशंसनाद् वादाल्लब्धं प्राध्ययनाच्च यत् । विद्याधनं तु तत्राहुर्विभागे न विभज्यते । शिल्पिष्वपि हि धर्मोऽयं मूल्याद्यच्चाधिकं भवेत् ॥ परं निरस्य यल्लब्धं विद्यया पणपूर्वकम् । विद्याधनं तु तद्विद्यान्न विभाज्यं बृहस्पतिः ॥ विद्याप्रतिज्ञया लब्धं शिष्यादाप्तं च यद्भवेत् । ऋत्विक्-न्यायेन यल्लब्धमेतद्विद्याधनं भृगुः ॥ विद्याबलकृतं चैव याज्यतः शिष्यतस्तथा । एतद्विद्याधनं प्राहुः सामान्यं यदतोऽन्यथा ॥ कात्या. 867-873 q. by अपरार्क p. 724, वि. र. p. 502, व्य. म. p. 125 ; व्यव. नि. (pp. 444-45) quotes all except परं निरस्य; the first is quoted by the मिता. on या. II. 118-119; all except the first and last are quoted in the दायभाग VI. 2. 1-14 which remarks at the end: तदयमर्थो यथा कयाचिद् विद्यया यल्लब्धमर्जकस्यैव तत्, नेतरेषाम् । प्रदर्शनार्थं तु कात्यायनेन विस्तरेणोक्तं श्रीकरादिभ्रमनिरासार्थम् । अतः स्वज्ञानख्यापनादिना यत् प्रतिग्रहाल्लब्धं तदपि विद्याधनमेव विद्ययैव विदुषे प्रतिग्रहदानात् ।
Linked texts (3)
- Bṛhaspatismṛti — Bṛhaspati, Sanskrit
- Yājñavalkyasmṛti — Yājñavalkya, Sanskrit
- Kātyāyanasmṛti — Kātyāyana (smṛtikāra), Sanskrit