Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.1196

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.1196

Language
English

v4.c63.1196

¹¹³⁰ असवर्णेषु पुत्रेषु गुणवत्त्वनिर्गुणत्वाविकृतो यो विशेषः स कन्यानामसवर्णानं विवाहश्च द्विजन्मभिः-इति आदिपुराणे कलिवर्ज्यप्रकरणे असवर्णापरिणयस्य निषेधात् सांप्रतं मूर्धावसिक्तादीनां प्रचाराभावेन नेह प्रपञ्चितः । समयनिर्णयोद्द्योते कलिवर्ज्यप्रकरणेऽस्मा-भिरुदाहृतेन दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः-इति वचनेन कलौ युगे दत्तौरसपुत्रिकापुत्र-व्यतिरिक्तानां क्षेत्रजादीनां गौणपुत्राणां निषेधात् सांप्रतं तेषां प्रचाराभावेन तद्विभागविषय-विशेषो नात्र निरूप्यते । मदनरत्न (folio 93a); अत एवास्माभिरसवर्णपुत्राणां दत्तके-तरेषां गौणपुत्राणां पुत्रिकायास्तत्सुतस्य च भागविधयो न निबध्यन्ते। संप्रत्यनननुष्ठीयमानत्वाद् वृथा च ग्रन्थविस्तारापत्तेः। स्मृतिच. II. p. 289.

Linked texts (3)