History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.435
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.435
- Language
- English
v4.c63.435
⁵⁹⁸ सकलं पूर्वपादं च सोत्तरं सक्रियं तथा। सावधारकं चैव तज्ज्ञेयं जयपत्रकम्॥ नारद (q. by अपरार्क p. 684); यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् । सावधारकं चैव जयपत्रकमिष्यते ॥ प्राड्विवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया । सिद्धेऽर्थे वादिने दद्याज्जयिने जयपत्रकम् ॥ वृद्धवसिष्ठ q. by मिता० on या. II. 91 and अपरार्क p. 684; पूर्वोत्तरक्रियापादं प्रमाणं तत्परीक्षणम् । निगदं स्मृतिवाक्यं च यथासभ्यं विनिश्चितम् । एतत्सर्वं समासेन जयपत्रेऽभिलेश्वयेत् ॥ व्यास q. by स्मृतिच० II. 57; पूर्वोत्तरक्रियायुक्तं निर्णयान्तं यदा नृपः । प्रदद्याज्जयिने लेख्यं जयपत्रं तदुच्यते ॥ बृह. q. by व्य. मा. p. 309; सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः । यथा लेख्यविधौ तद्वत् स्वहस्तं तत्र दापयेत् ॥ कात्या. (263) q. by स्मृतिच. II. p. 57, मिता. on या. II. 91 (without name). 'जयपत्रे सभ्यप्राड्विवाकभूपतिसंमतिरेव प्रयोजिका न तु यावत्पण्डितव्यवहर्तोपि' विवादचन्द्र p. 146. Compare Order 20 r. 4 of the Indian Civil Procedure code for the contents of the judgment.
Linked texts (3)
- Bṛhaspatismṛti — Bṛhaspati, Sanskrit
- Kātyāyanasmṛti — Kātyāyana (smṛtikāra), Sanskrit
- Nāradasmṛti — Nārada, Sanskrit