History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.835
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.835
- Language
- English
v4.c63.835
⁸⁷⁸ स (बृहस्पतिः) एवाह—आत्मीयस्य विजातीयं द्रव्यमादाय चान्यतः। क्रयो-त्थस्य (क्रयोर्थस्य ?) परित्यागः साम्ये तु परिवर्तना ॥ इति । व्यासः । आत्मीयस्य विजातीयं द्रव्यमादाय चान्यतः । क्रयो मूल्यस्य संत्यागः स्वत्वहेतुः परस्परम् । परिवृत्तिः सजातीयद्रव्ये विनिमयः स्मृतः । वैषम्ये विक्रयः प्रोक्तो मिश्रे विनिमयः स्मृतः ॥ इति । स्वत्वहेतुफलजनका एते क्रयविक्रयपरिवर्तनविनिमया इति । तत्र लोके जिहासितं सुवर्णादि मूल्यमुच्यते । उपादित्सितं क्षेत्रगृहादि पण्यमित्युच्यते । तत्र मूल्यत्यागपूर्वकपण्यस्वीकारः क्रयः । पण्यत्यागपूर्वको मूल्ये स्वत्वजनको मूल्यस्वीकारो विक्रयः । सजातीयत्यागपूर्वकः सजातीयस्य स्वीकारः परिवर्त्तना । वैषम्ये सति परिवर्तनैवावक्रयशब्देनोच्यते । विजातीयसजातीयमिश्रपरिवर्त्तनायां विजातीया-धिक्येऽवकयो भवति, सजातीयाधिक्ये परिवर्तना भवति । सजातीयविजातीययोः साम्ये विनि-मयो भवति । व्यव. नि. pp. 347-348. The definition of sale given by the Vyavahāranirṇaya looks quite modern. Compare sec. 4 of the Indian Sale of Goods Act (III. of 1930).
Linked texts (2)
- Bṛhaspatismṛti — Bṛhaspati, Sanskrit
- Vyāsasmṛti — Vyāsa, Sanskrit