History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.296
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.296
- Language
- English
v4.c63.t2.296
¹⁴⁷¹ वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः । क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥ या. II. 137; क्रमेण प्रतिलोमक्रमेण ... ब्रह्मचारी नैष्ठिकः उपकुर्वाणस्य तु धनं मात्रादय एव गृह्णन्ति । ... सच्छिष्यः पुनरध्यात्मशास्त्रश्रवणधारणतदर्थानुष्ठानक्षमः । दुर्वृत्तस्याचार्यादेरपि भागानर्हत्वात् । ... धर्मभ्राता प्रतिपन्नो भ्राता एकतीर्थी एकाश्रमी धर्मभ्राता चासावतीर्थी च धर्मभ्रात्रेकतीर्थी । मिता.; प्रतिलोमक्रमेण यथासम्भवं धनं ज्ञेयम् । ब्रह्मचारी च नैष्ठिकोभिमतः पित्रादिपरित्यागेन यावज्जीवमाचार्यकुलनिवासपरिचर्यानिष्ठायाः तेन कृतत्वात् । दायभाग XI. 6.36; शिष्यस्य सम्यक्त्वमुपलक्षणम् । अत आचार्यधर्मभ्रात्रेकतीर्थिनावपि सुवृत्तावेव धनग्राहिणावित्याह । ... ... अनेनैवाभिप्रायेण याज्ञवल्क्योपि आचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिन इत्युभयत्र सम्बन्धं द्योतयितुं सच्छिष्य इति मध्ये परिगणयामास । सुबोधिनी. मदनरत्न explains धर्मभ्राता as समानाचार्यक and दीपकलिका explains एकतीर्थी as समानगुरु. The word उपकुर्वाण occurs in वैखानसस्मार्तसूत्र II. 12 and in हारीत q. by अपरार्क p. 71. नैष्ठिक is derived from निष्ठा 'end'. विष्णुध. सू. 28. 46 and वैखा. II. 12 employ the word नैष्ठिक. लघुविष्णु I. 24 defines: निष्ठां तत्रैव यः गच्छेन्नैष्ठिकः स उदाहृतः and मेधा. on मनु. III. 1 explains निष्ठां समाप्तिं गच्छति नैष्ठिकः .
Linked texts (6)
- Vaiṣṇava Dharmaśāstra — Viṣṇu, Sanskrit
- Mānava Dharmaśāstra — Manu & Bhṛgu, Sanskrit
- Yājñavalkyasmṛti — Yājñavalkya, Sanskrit
- Vaikhānasasmārtasūtra — Vikhanas, Sanskrit
- Hāritadharmasūtra — Hārīta, Sanskrit
- Dāyabhāga — Jīmūtavāhana, Sanskrit