History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.301
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.301
- Language
- English
v4.c63.t2.301
¹⁴⁷⁴ सहवासे पुरुषाणामाहित्य संसर्गाभावात्तद्द्वारेण संसर्गो वाच्य इति तन्निमित्तभूतावच्छेदकापनोदेन विभक्तानां धनादीनां पूर्ववदेकराशीकरणपर्यन्तः संसर्गो न पुनः सहवासमात्रमिति मन्तव्यम् । स्मृतिच II. p. 302; संसर्गो नैकपाकवासमात्रं संभूयव्यवसाये गतत्वात् किं तु विभज्यैकीकृतधनत्वम् । ... ... यावत्सतभाविभवद्धनं मम यत्तच्च यथा तव तथा ममेति स्वीकारः स च क्वचिद्वाचनिकः क्वचिद्व्यवहारान्वेयः । विवादचन्द्र p. 82; यच्च संसर्गे प्रमाणान्तरं नास्ति तत्र साधारणकृत्ये तत्तद्वंशविनियोजनमपि प्रमाणम् । न च तादृशवचनाभावे तदभावः, अनुक्त्वापि कृत्या व्यवहारसिद्धेः । तदुक्तं विष्णुपुराणे । अनुक्त्वापि वचः किंचित् कृतं भवति कर्मणा । इति । विवादचन्द्र p. 86. संसर्गं तु संसृजतोरनुमतिमूलम् । वि. चि. p. 157; विद्यमानं भावि वा धनमावयोः पुनर्भागावधि साधारणमित्याकारिका बुद्धिरिच्छा वा संसर्गः । व्य. मयूख p. 146.
Linked texts (4)
- Viṣṇupurāṇa — Vyāsa, Sanskrit
- Smṛticandrikā (Āpadeva) — Āpadeva 1600, Sanskrit
- Vyavahāramayūkha — Nīlakaṇṭhabhaṭṭa 1610, Sanskrit
- Vivādacintāmaṇi — Vācaspatimiśra (Maithila smārta), Sanskrit