History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.38
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.38
- Language
- English
v4.c63.t2.38
¹²⁹⁹ द्विविधा दत्तकादयो नित्यवद् द्वयामुष्यायणा अनित्यवद् द्वयामुष्यायणाश्च । तत्र नित्यवद् द्वयामुष्यायणा नाम ये जनकप्रतिग्रहीतॄभ्यामावयोरेयं पुत्र इति संप्रतिपन्नाः । अनित्यद्वयामुष्यायणास्तु ये चूडान्तैः संस्कारैर्जनकेन संस्कृता उपनयनादिभिश्च प्रतिग्रहीत्रा । तेषां गोत्रद्वयेनापि संस्कृतत्वाद् द्वयामुष्यायणत्वं परं त्वनित्यम् । जातमात्राद्येव परिग्रहे गोत्र- द्वयेन संस्काराभावात् तदयं प्रतिग्रहीतृगोत्रमेव । तदिदं सर्वमभिप्रेत्याह सत्याषाढः । 'नित्यानां द्वयामुष्यायणानां द्वयोः' इति सूत्रेण नित्यद्वयामुष्यायणानां गोत्रद्वये प्रवरसम्बन्धमुक्त्वा तमेवानित्येष्वप्यतिदिशति 'दत्तकादीनां तु द्वयामुष्यायणवत्' इति सूत्रेण । वृत्त. मी. pp. 138-39; vide दत्त. च. p. 44 for the सूत्र of सत्याषाढ.
Linked texts (1)
- Hiraṇyakeśiśrautasūtra — Hiraṇyakeśin, Sanskrit