History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.535
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.535
- Language
- English
v4.c63.t2.535
¹⁶¹⁷ यद्वा विद्यमानशाखागतश्रुतिमूलत्वमेवास्तु । कथमनुपलब्धिरिति चेदुच्यते । शाखानां विप्रकीर्णत्वात्पुरुषाणां प्रमादतः । नानाप्रकरणस्थत्वात्स्मृतेर्मूलं न दृश्यते ॥ यत्तु किमर्थं वेदवाक्यान्येव नोपसंगृहीतानीति । संप्रदायविनाशभीतेः । विशिष्टानुपूर्व्या हि स्वाध्यायोऽध्येतव्यः श्रूयते । स्मार्ताश्चाचाराः केचित् क्वचित्कस्यांचिच्छाखायाम् । तत्रापि तु केचित्पुरुषमेवाधिकृत्याम्नायन्ते । येन ऋतुप्रकरणाम्नाताः केनचिन्निमित्तेनाकृष्यमाणाः पुरुषधर्मतां भजन्ते । यथा-मलद्वद्वाससा सह न संवदेत्-तस्मान्न ब्राह्मणायावगुरेत-इत्येव-मांद्यः । तत्र यदि तावन्मात्रेव वाक्याम्युद्धृत्याध्यापयेयुस्ततः क्रमान्यत्वात्स्वाध्यायविधि-विरोधः स्यात् । अनेन च निर्देशेनान्येष्वर्थवादोद्वारेण विधिमात्रमधीयीरन् कर्मोपयिकमात्रं वा । तत्र वेदमलयः प्रसज्येत । तन्त्रवा. on जै. I. 3. 2. p. 164. For मलवद्व &c. vide तै. सं. II. 5. 1. 5 and for तस्मान्न &c. तै. सं. II. 6. 10. 2 (q. in H. of Dh. vol. II p. 803 *n.* 1917 and p. 151 *n.* 346 respectively).
Cites (2)
- Mīmāṃsāsūtra — Jaimini, Sanskrit
- Kṛṣṇayajurvedasaṃhitā — Sanskrit