Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.540

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.540

Language
English

v4.c63.t2.540

¹⁶²⁰ विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम् । हेतुदर्शनाच्च । जै. I. 3. 3–4; अथ यत्र श्रुतिविरोधस्तत्र कथम् । यथौदुम्बर्याः सर्ववेष्टनं ‘औदुम्बरीं स्पृष्ट्वोद्गायेत्’ इति श्रुत्या विरुद्धम् । अष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्यचरणं ‘जातपुत्रः कृष्णकेशोऽग्नीनादधीत’ इत्यनेन विरुद्धम् । क्रीतराजकोऽभोज्यान्न इति ‘तस्मादग्नीषोमीये संस्थिते यजमानस्य गृहेऽशितव्यम्’ इत्यनेन विरुद्धम् । तत्प्रमाणं कर्तृसामान्यात् । इत्येवं प्राप्ते ब्रूमः । अशक्यत्वात्स्यान्मोह इत्यवगम्यते । ... तस्मादुक्तं श्रुतिविरुद्धा स्मृतिरप्रमाणमिति । अतश्च सर्ववेष्टनादि नादरणीयम् । शबर.

Linked texts (1)