History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.569
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.569
- Language
- English
v4.c63.t2.569
¹⁶³⁹ दृष्टकारणहीनानि यानि कर्माणि साधुभिः । प्रयुक्तानि प्रतीयेरन् धर्मत्वेनेह तान्यपि ॥ शरीरस्थितये यानि सुखार्थं वा प्रयुञ्जते । अर्थार्थं वा न तेष्वस्ति शिष्टानामेव धर्मधीः ॥ धर्मत्वेन प्रपन्नानि शिष्टैर्यानि तु कानिचित् । वैदिकैः कर्तृसामान्यात्तेषां धर्मत्वमिष्यते ॥ ... नैव तेषां सदाचारनिमित्ता शिष्टता मता । साक्षाद्विहितकारित्वान्निष्टत्वे सति तद्वचः ॥ प्रत्यक्षवेदविहितधर्मक्रियया हि लब्धशिष्टत्वव्यपदेशा यत्परम्पराप्राप्तमन्यदपि धर्मबुद्ध्या कुर्वन्ति तदपि स्वर्ग्यत्वाद्धर्मरूपमेव । तन्त्रवार्तिक pp. 205-6.
Linked texts (1)
- Tantravārttika — Kumārila Bhaṭṭa, Sanskrit