History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.584
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.584
- Language
- English
v4.c63.t2.584
¹⁶⁴⁸ अनुमानव्यवस्थानात्तत्संयुक्तं प्रमाणं स्यात् । अपि वा सर्वधर्मः स्यात्तन्न्यायत्वाविधानस्य । ... कर्मधर्मो वा प्रवणवत् । तुल्यं तु कर्तृधर्मेण । जै. I. 3. 15–23; अनुमानात् स्मृतेराचाराणां च प्रामाण्यमिष्यते । येनैव हेतुना ते प्रमाणं तेनैव व्यवस्थिताः प्रामाण्यमर्हन्ति । तस्माद्द् होलाकादयः प्राच्यैरेव कर्तव्याः, आह्नीनैबुकादयो दाक्षिणात्यैरेव, उद्वृषभयज्ञादय उदीच्यैरेव । ... अपि वेति पक्षव्यावृत्तिः । सर्वजातीयः सर्वधर्मः स्यात् । कुतः तन्न्यायत्वात् विधानस्य । विधीयतेनेनेति विधानं शब्दः । सोऽनुमीयते स्मृत्या । ... तस्मात्सर्वधर्मता विधेर्न्याय्या । शबर; the word अनुमान means लिङ्ग or अनुमापक or कल्पक. The first two सूत्रs may be briefly but closely paraphrased as 'अनुमानस्य कल्पकस्य व्यवस्थितत्वात्तत्प्रमाणमूलभूता श्रुतिः व्यवस्थापकोपपदसंयुक्ता स्यात् । न व्यवस्थितमूलत्वं भवितुमर्हति, अपि तु सर्वधर्मः स्यात् । मूलभूत वाक्ये सर्वधर्मत्वोपपादकस्य न्यायस्य सत्त्वात् ।' मीमांसाकौ. pp. 100–101. This अधिकरण is called होलाका because the first example in शबरभाष्य refers to the practice of होलाका. मेधा. on मनु VIII. 46 refers to उद्वृषभयज्ञ as a practice of the northerners. The जै. न्या. मा. explains: 'वसन्तोत्सवो होलाका । स्वस्वकुलागतं करञ्जार्कादिस्थावरदेवतापूजादिकमाह्नीनैबुकशब्देनोच्यते । ज्येष्ठमासस्य पौर्णमास्यां बलीवर्दानलङ्कृत्य धावयन्ति सोयमुद्वृषभयज्ञः ।.'
Linked texts (2)
- Mānava Dharmaśāstra — Manu & Bhṛgu, Sanskrit
- Mīmāṃsāsūtra — Jaimini, Sanskrit