History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.589
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v4.c63.t2.589
- Language
- English
v4.c63.t2.589
¹⁶⁵² देशधर्मानुदाहृत्य संप्रत्येतद्विचार्यते । किं व्यवस्थितमूलास्ते किं वैषां सर्वधर्मता ॥ ...आद्यं सूत्रद्वयं यावदिदमप्यत्र चिन्त्यताम् । गृह्यगौतमसूत्रादिव्यवस्थासर्वगामिते ॥ पुराणमानवेतिहासव्यतिरिक्तगौतमवसिष्ठशङ्खलिखितहारीतापस्तम्बबौधायनादिप्रणीतधर्मशास्त्राणां गृह्यग्रन्थानां च प्रातिशाख्यलक्षणवत्प्रतिचरणं पाठव्यवस्थोपलभ्यते । तद्यथा । गौतमगोभिलीये छन्दोगैरेव परिगृहीते। वासिष्ठं बह्वृचैरेव शङ्खलिखितोक्तं च वाजसनेयिभिः। आपस्तम्बीयबौधायनीये तैत्तिरीयैरेव प्रतिपन्ने । इत्येवं तत्र तत्र गृह्यव्यवस्थाभ्युपगमादि दर्शयित्वा विचारविततन्यम् । किं तानि तेषामेव प्रमाणानि, उत सर्वाणि, सर्वेषामिति । तन्त्र. pp. 243-244; कर्ता हि छन्दोगः स्वशिष्यांश्छन्दोगान् स्वग्रन्थमध्यापयामास तेऽप्यन्यांश्छन्दोगानित्येवं गौतमौयस्य छन्दोगैः पाठः । तथापस्तम्बग्रन्थस्य तैत्तिरीयैरेवं गृह्यग्रन्थानामपीति व्यवस्थितधर्मविषयत्वमप्रमाणकम् । आचाराणां तु सर्वाचरितॄनुगतमनाचरितृभ्यश्च व्यावृतसमाकृति-व्यक्तिगुणसंस्थानादिकं न किंचिद्विशेषणं संभवति यदुपादाय होलाकाद्यधिकारं विशिंष्यात् । शास्त्रदीपिका p. 42.
Linked texts (1)
- Tantravārttika — Kumārila Bhaṭṭa, Sanskrit