History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v5.c71.s1.113
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v5.c71.s1.113
- Language
- English
v5.c71.s1.113
⁷⁹ गोवधो व्रात्यता स्तेयमृणानां चानपाक्रिया। अनाहिताग्निता पण्यविक्रयः परिवेदनम्। भृतादध्ययनादानं भृतकाध्यापनं तथा॥ पारदार्यं परिवित्तिर् वार्धुष्यं लवणक्रिया॥ स्त्रीशूद्रविट्क्षत्रवधो निन्दिताथोपजीवनम्॥ नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः॥ धान्यकुप्यपशुस्तेयमयाज्यानां च याजनम्॥ पितृमातृसुतत्यागस्तडागारामविक्रयः॥ कन्यायान्दूषणं चैव परिविन्दकयाजनम्॥ कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम्॥ आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम्॥ स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च॥ इन्धनार्थे द्रुमच्छेदः स्त्रीहिंसौषधिजीवनम्। हिंस्रयन्त्रविधानं च व्यसनान्यप्यात्मविक्रयः॥ शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम्। तथैवानाश्रमे वासः परान्नपरपुष्टता॥ असच्छास्त्राधिगमनमाकरेष्वाधिकारिता॥ भार्याया विक्रयश्चैषामेकैकमुपपातकम्॥ या III. 234-242.
Linked texts (1)
- Yājñavalkyasmṛti — Yājñavalkya, Sanskrit